Book Title: Prabandh Chintamani
Author(s): Ramchandra D Shastri
Publisher: Ramchandra D Shastri

Previous | Next

Page 351
________________ प्रकीर्णकप्रबन्धाः ३१५ सह राजमन्दिरे प्रयातः प्रत्यूषकाले श्रीभोजस्य शरीरचेष्टितं विलोक्य वृहदबाहडेनाद्य नीरुजो यूयमित्युक्ते लघोर्मखभर विलोक्य श्रीभोजेन कारणं पृष्ठः स स्वामिनः शारीरेऽद्य निशाशेषे कृष्णच्छापाप्रवेशसूचितो राजयक्ष्मणः प्रवेशोऽभूदिति दैवतादेशेनातीन्द्रियं भावं विज्ञपयन, तत्कलाकलापचमत्कतेन राज्ञा तस्य व्याधेः प्रतीकारतयानुयुक्तः लक्षत्रयमूल्यं रसायनं निवेदयन्, षडिर्मासैस्तावता द्रव्यव्ययेन परमादरेण च तस्मिन् रसायने सिद्ध प्रदोषसमये तदसायनं काचमये कम्पके न्यस्य नरेन्द्रपल्यङ्के निधाय प्रत्यूषे देवतार्चनानन्तरं तद्रसायनमत्तुमिच्छुः रसायनपूजावर्धापनादनु सजीकतायां समयसामय्यां स लघुरगदंकारी केनापि कारणेन तं काचकुम्पकं भूमावास्फाल्य षभञ्ज । आः किमेतदिति राज्ञोक्ते रसायनपरिमलादेव पलायिते व्याधौ व्याधेरभावाद्धातुक्षयकारिणानेन वृथा स्थापितेनालं यदद्या शर्वरीविरामे सति सा पूर्वोक्ता कृष्णा छायां १ A शरीरेङ्गितं २ A देवतातिशयेन B मात्मीयभव ३ D पलायमाने Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378