________________
प्रकीर्णकप्रबन्धाः ३१५ सह राजमन्दिरे प्रयातः प्रत्यूषकाले श्रीभोजस्य शरीरचेष्टितं विलोक्य वृहदबाहडेनाद्य नीरुजो यूयमित्युक्ते लघोर्मखभर विलोक्य श्रीभोजेन कारणं पृष्ठः स स्वामिनः शारीरेऽद्य निशाशेषे कृष्णच्छापाप्रवेशसूचितो राजयक्ष्मणः प्रवेशोऽभूदिति दैवतादेशेनातीन्द्रियं भावं विज्ञपयन, तत्कलाकलापचमत्कतेन राज्ञा तस्य व्याधेः प्रतीकारतयानुयुक्तः लक्षत्रयमूल्यं रसायनं निवेदयन्, षडिर्मासैस्तावता द्रव्यव्ययेन परमादरेण च तस्मिन् रसायने सिद्ध प्रदोषसमये तदसायनं काचमये कम्पके न्यस्य नरेन्द्रपल्यङ्के निधाय प्रत्यूषे देवतार्चनानन्तरं तद्रसायनमत्तुमिच्छुः रसायनपूजावर्धापनादनु सजीकतायां समयसामय्यां स लघुरगदंकारी केनापि कारणेन तं काचकुम्पकं भूमावास्फाल्य षभञ्ज । आः किमेतदिति राज्ञोक्ते रसायनपरिमलादेव पलायिते व्याधौ व्याधेरभावाद्धातुक्षयकारिणानेन वृथा स्थापितेनालं यदद्या शर्वरीविरामे सति सा पूर्वोक्ता कृष्णा छायां
१ A शरीरेङ्गितं २ A देवतातिशयेन B मात्मीयभव ३ D पलायमाने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org