Book Title: Prabandh Chintamani
Author(s): Ramchandra D Shastri
Publisher: Ramchandra D Shastri
________________
प्रकीर्णकप्रबन्धाः ३१३ प्याभिस्तं तथावस्थितं प्राप्य विपणिरमणी तदृ. तान्तं ज्ञापितां सती ताभिरेव समानीय प्रेखोलपल्यङ्के मुक्तः । अहोरात्रत्रयान्ते किंचित्त्यक्तनिद्रश्चित्रशालादिचित्रं चित्रकार पश्यन् स्वर्लोकसमुत्पन्नमात्मानं मन्यमानस्तया पणहरिणीदृशा ज्ञापितवृत्तान्तः स्नानपानभोजनादिभिर्भक्तिभिः परितोषितो नृपसभायां समुपेतः पाणिनिव्याकरणं यथावस्थितं व्याचक्षाणो नृपप्रभृतिपण्डितैरशेषैः सक्रियमाणस्तदुपातं सर्वस्वं तस्यै समर्पयामास । __ अथ तस्य क्रमेण चतुर्णी वर्णानां स्त्रियश्चतस्त्रः प्रिया अभवन् । तथा क्षत्रियाङ्गजः श्रीविक्रमार्कः शूद्रीसुतो भर्तृहरिः स हीनजातित्वात् भूमिगृहस्थो गुप्तवृत्त्याध्याप्यते। अपरे त्रयः प्रत्यक्षाः पाठ्यन्ते एवं भर्तृहरिसंकेतेन तेषामध्याप्यमानानां ॥ दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य ।
इति पाठ्यमाने भर्तृहरी रज्जुसंकेतेऽसंजायमाने प्रत्यक्षच्छात्रैस्त्रिभिरुत्तरार्द्ध दृच्छयमाने कुपित: उपाध्यायं रे वेश्यासुत अद्यापि रज्जुसंकेतं न कु. १ ) प्रेक्ष्य २ B C तं वृत्तान्तं ज्ञापिता ३ A भर्तृहरः नृहरः
40
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378