________________
२९०
प्रबन्धावन्तामाणः सगः ५
धयितुं सभामण्डपस्य भारपट्टे गुप्तवृत्त्यामून का - व्यानि लिलेख ||
शैत्यं नाम गुणस्तवैव तदनु स्वाभाविकी स्वच्छता किं ब्रूमः शुचितां व्रजन्त्यशुचयः स्पर्शात्तवैवापरे । किं चातः परमस्ति ते स्तुतिपदं त्वं जीवितं देहिनां त्वं चेन्नीचपथेन गच्छसि पयः कस्त्वां निरोद्धुं क्षमः १ त्वं चेत्सचरसे वृषेण लघुता का नाम दिग्दन्तिनां व्यालैः कङ्कणभूषणानि तनुषे हानिर्न नामपि । मृर्द्धन्यं कुरुषे जडांशुमयशः किं नाम लोकत्रयीदीपस्याम्बुजबान्धवस्य जगतामीशोसि किं ब्रूमहे २ छिन्नं ब्रह्मशिरो यदि प्रथयति प्रेतेषु सख्यं यदि क्षीवः क्रीडति मातृभिर्यदि रतिं धत्ते श्मशाने यदि । सृष्ट्वा संहरति प्रजां यदि तथाप्याधायें भक्त्या मनस्तं सेवे करवाणि किं त्रिजगती शून्या स एवेश्वरः ३ एतस्मिन्महति प्रदोषसमये राजा त्वमेकस्ततो लक्ष्मीमम्बुरुहां पिधाय कुमुदे किं नो तनोषि श्रियः। यद्ब्राह्मी स्थितिरत्र यच्च सुमनः श्रेणीषु संभावना त्वं तावत्कतमोसि तत्तिरयितुं धातापि नैव क्षमः ४ १ A भवन्ति २ AB प्रजां ३ C आदाय ४ D तथैव १ 4 तिरयितुं [ निर्द्धारयितुं आछायितुं वा
૫
Jain Education International
For Private & Personal Use Only
―
www.jainelibrary.org