Book Title: Prabandh Chintamani
Author(s): Ramchandra D Shastri
Publisher: Ramchandra D Shastri
________________
२९८ प्रबन्धचिन्तामणिः सर्गः ५ त्वयि जीवति जीवन्ति बलिकर्णदधीचयः । दारिद्यं तु जगदेव मयि जीवति जीवति ॥ ३॥ दरिद्रान् सृजतो धातुः कृतार्थान् कुर्वतस्तव ।। जगद्देव न जानीमः कस्य हस्तो विरंस्यति ॥४॥ जगदेव जगदेवप्रासादमधितिष्ठतः। स्वयशःशिवलिङ्गस्य नक्षत्रैरक्षतायितम् ॥ ५ ॥ अगाधः पाथोधिः पृथु धरणिपात्रं विभु नमः समुत्तुङ्गो मेरुः प्रथितमहिमा कैटभारेपुः । जगद्देवो वीरः सुरतरुरुदारः सुरसरित् पवित्रा पीयूषद्युतिरमृतवर्षीति न नवम् ॥ ६ ॥ न नवमिति जगदेवनार्पिता समस्या पण्डितेन पूरितेत्पादीनि बहूनि काव्यानि यथाश्रुतं ज्ञातव्यानि ॥ अथ श्रीपरमर्दिमेदिनीपतेः पट्टमहादेवी श्रीजगदेवस्य प्रतिपन्नजामिः । कदाचित् राज्ञा श्रीमालभूपालपराजयाय प्राहितः श्रीजगदेवः श्रीदेवार्चनं कुर्वन् छलघातिना परबलेन सैन्यं नैंजमुपद्रुतं शृण्वन तमेव देवतावसरं न मुमोच । तस्मिनवसरे प्रणिधिपुरुषमुखाज्जगद्देवपराजयमश्रुतपूर्वमवधार्य महिषीं श्रीपरमर्दी प्राह । भवद्भाता सं१ A एथुरवनिपात्रं. २ निज.
Jain Education International:
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378