Book Title: Prabandh Chintamani
Author(s): Ramchandra D Shastri
Publisher: Ramchandra D Shastri
________________
३०६
प्रबन्धचिन्तामणिः सर्ग. ५
क्षरूपान् परीक्ष्य पुनरिहायातो मिहिरप्रासादाद्वराहमिहिर इति प्रसिद्धाख्यः श्रीनन्दनृपतेः परमां मान्यतां दधानो वाराही संहितेति नवं ज्योतिःशास्त्रं रचयांचकार । अथ कदाचित्स निजपुत्रजन्मावसरे निजगृहे घटिकां निवेश्य तया शुद्धजन्मकाललग्नं निर्णीय जातकग्रन्थप्रमाणेन ज्योतिश्चक्रे । स्वयं प्रत्यक्षीकृतग्रहचक्रज्ञानबलात्तस्य सूनोः संवत्सरशतप्रमाणमायुर्निर्णीतवान् । जन्ममहोत्सवे चैकं श्रीभद्रबाहुनामानं जैनाचार्य कनीयांस सोदरं विहाय नृपप्रभृतिकः स कोपि नास्ति य उपायनपाणिर्न जगाम । स निमित्तविज्जिनभक्ताय शकडालमन्त्रिणे तेषां सूरीणामनागमनकारणमुपालम्भगर्भितं जग । तेन ज्ञापितास्ते महात्मानः संपूर्ण श्रुतज्ञानकरतलकलितामलकफलवत्कालत्रयास्तस्य शिशोविंशतितमे दिने बिडालान्मृत्युमुपदिशन्तो वयं नागता इति तेषामुपदेशभूतां वाचं वराहमि हिराय निवेदितायां, ततः प्रभृति निजकुटुम्बं तस्य शावस्यावश्यकीं तां विपदं निरोद्धुं बिडालरक्षायै शतश उपायान्कुर्वन्नपि निर्णीते दिने निशी - १ शिशोः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378