SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ २९८ प्रबन्धचिन्तामणिः सर्गः ५ त्वयि जीवति जीवन्ति बलिकर्णदधीचयः । दारिद्यं तु जगदेव मयि जीवति जीवति ॥ ३॥ दरिद्रान् सृजतो धातुः कृतार्थान् कुर्वतस्तव ।। जगद्देव न जानीमः कस्य हस्तो विरंस्यति ॥४॥ जगदेव जगदेवप्रासादमधितिष्ठतः। स्वयशःशिवलिङ्गस्य नक्षत्रैरक्षतायितम् ॥ ५ ॥ अगाधः पाथोधिः पृथु धरणिपात्रं विभु नमः समुत्तुङ्गो मेरुः प्रथितमहिमा कैटभारेपुः । जगद्देवो वीरः सुरतरुरुदारः सुरसरित् पवित्रा पीयूषद्युतिरमृतवर्षीति न नवम् ॥ ६ ॥ न नवमिति जगदेवनार्पिता समस्या पण्डितेन पूरितेत्पादीनि बहूनि काव्यानि यथाश्रुतं ज्ञातव्यानि ॥ अथ श्रीपरमर्दिमेदिनीपतेः पट्टमहादेवी श्रीजगदेवस्य प्रतिपन्नजामिः । कदाचित् राज्ञा श्रीमालभूपालपराजयाय प्राहितः श्रीजगदेवः श्रीदेवार्चनं कुर्वन् छलघातिना परबलेन सैन्यं नैंजमुपद्रुतं शृण्वन तमेव देवतावसरं न मुमोच । तस्मिनवसरे प्रणिधिपुरुषमुखाज्जगद्देवपराजयमश्रुतपूर्वमवधार्य महिषीं श्रीपरमर्दी प्राह । भवद्भाता सं१ A एथुरवनिपात्रं. २ निज. Jain Education International: For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy