SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ प्रकीर्णक प्रबन्धाः २९९ ग्रामवीरनाथां बिभ्राणोपि रिपुभिराक्रान्तः पलायितुमपि न प्रभूष्णुरजनि । इति नृपतेर्मर्माभिघातनमक्तिमाकर्ण्य प्रत्यूषसंध्याकाले सा राज्ञ प्रतीची दिशमालोकितवती राज्ञा किमालोकसे इत्यादिष्टे सूर्योदयमिति, मुग्धे किं सूर्योदयोऽपरस्यां दिशि जाघटीति, सा तु विरञ्चिप्रपञ्चः प्रतीपः प्रतीच्यामपि प्रद्योतनोदयो दुर्घटोपि घटते परं क्षत्रियदेवजगद्देवस्य भङ्गस्तु नेति दम्पत्योः प्रि यालापः ॥ देवार्चनानन्तरं जगद्देवः पञ्चशत्या सुभटैः समं समुत्थितश्चण्डांशुरिव तमस्काण्डं, केसरिकिशोर इव गजयूथं, वात्यावर्त्त इव घनमण्डलं हेलयैव तद्दलयामास ॥ अथ परमर्दिनामा नृपो जगत्युदाहरणीभूतं परमैश्वर्यमनुभवन् निद्रावसरवर्ज रात्रिंदिवं निजौजसा विच्छुरितं छुरिकाभ्यासंविधानोऽशनावसरे परिवेषणाकुलं प्रतिदिन: मेकैकं सूपकारमकृपः कृपाणिकया निघ्नन् षष्ट्यधिकशतत्रयेण भक्काराणां वर्षे निषेव्यमाणः कोपकालानल इति बिरुदं बभार । आकाश प्रसर प्रसर्पत दिशस्त्वं पृथ्वि पृथ्वी भव प्रत्यक्षीकृतमादिराज यशसां युष्माभिरुज्जृम्मितम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy