________________
३०० प्रबन्धचिन्तामणिः सर्ग.५ प्रेक्षध्वं परमर्दिपार्थिवयशोराशीवकाशोदयाबीजोच्छासविदीर्णदाडिमदशां ब्रह्माण्डमारोहति॥ __ इत्यादिभिः स्तुतिभिस्तूयमानश्चिरं राज्यसुखमनुबभूव । स च सपादलक्षक्षितिपतिना श्रीप्टथ्वीराजेन सह संजातविग्रहः समराजिरमधिरूढः स्वसैन्ये पराजिते कान्दिशीकः कामपि दिशं गृहीवा पलायनपरः स्वराजधानीमाजगाम । अथ तस्य पार्थिवस्यापमानितसर्वसेवको निर्विषयीकृतः पृथ्वीराजराजसभामुपेतः प्रणामान्ते किं दैवतं पूज्यते परमाईपुरे विशेषात्सुरुतिभिरिति स्वामिनादिष्ठस्तत्कालोचितं काव्यमिदमपाठीत् । मन्दश्चन्द्रकिरीटपूजनरसस्तृष्णा न कृष्णार्चने स्तब्धः शम्भुनितम्बिनीप्रणतिषु व्यग्रो विधातृग्रहः नाथो नः परमद्यनेन वदनन्यस्तेन संरक्षितः पृथ्वीराजनराधिपादिति तृणं तत्पत्तने पूज्यते ॥१ __ इति स्तुतिपरितोषितेनानुजग्राह । स तत्र त्रिःसप्तकत्वस्लासितम्लेछाधिपोपि द्वाविंशतिवेलायां स एव म्लेछाधिपतिः पृथ्वीराजराजधानीमुपेत्य निजदुर्द्धरस्कन्धावारेण समवात्सीत् । त्रासि१ A स्तब्धा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org