________________
प्रकोणर्कप्रबन्धाः ३०१ तमक्षिकेव भूयो भूयो रिपुरुपतीति निजनृपतेररति मनोगतामवगम्य प्रभोनिःसीमप्रसादपात्राद्वितीयमिवामानं तुङ्गनामा क्षात्रं तेजो वहन् सुभटकोटीरः स्वप्रतिबिम्बरूपण पुत्रेण समं म्लेछाधिपतेरनीकं प्रविश्य निशीथसमये तस्य रिपोर्गुरूदरात् परितः खदिराङ्गारधगधगायमानां परिखां निरीक्ष्यागजं जगाद । अस्यां मम प्रविष्ठस्य पृष्टे पदं ददानो म्लेछपतिं निगृहाणति पितुरादेशान्ते कार्यमेतन्ममासाध्यतमं किं च जीवितकाया वप्नुविपत्तिदर्शनं, तदहमस्यां विशामि भवन्त एव तमन्तं नयन्तु । इत्युका तेन तथा कते स्वामिकार्य पर्याप्तप्रायं मन्यमानस्तमराति लीलया निगृह्य यथागतमाजगाम । विभातभूयिष्ठायां निशि विपन्नं स्वामिनं निरीक्ष्य परसैन्यं पलायांचके। स तुङ्गसुभटस्तुङ्गप्रकृतिर्नृपतेः कदाचिन्न ज्ञापयामास । कस्मिन्नप्यवसरे राजमान्यतया नितान्तपरिचितां तुङ्गपुत्रवधूमवधूतमङ्गलवलयामालोक्य संभ्रमात् पतिना पृच्छयमानोपि पयोधिरिव गम्मी, रतया मौनमर्यादया किमप्यविज्ञपयन निजशपथ
२ A B वपुः [ वतुः पितुः]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org