SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ २९७ प्रकीर्णक प्रबन्धाः रमर्दिप्रसादतो देशाधिपत्ये संजाते सति तदुपा" ध्यायः श्रीजगद्देवस्य मिलनाय समागतः काव्यमिदं प्राभृतीचकार ॥ तद्यथा । चक्रः पप्रच्छ पद्मं कथय मम सखे क्वास्ति किं स प्रदेशो वस्तुं नो यत्र रात्रिर्भवति भुवि चिरायेति स प्रत्युवाच । नाते मेरौ समाप्तिं कनकवितरणैः श्रीजगदेवनाम्ना सूर्येनान्तर्हितेऽस्मिन् कतिपयदिवसैर्वासरा द्वैतसृष्टिः १ अस्यै काव्यस्य पारितोषिके तस्मै स स्थूललक्ष्यो लक्षार्द्धं विततार ॥ क्षोणीरक्षणदक्षदक्षिणभुजे दाक्षिण्यदीक्षागुरौ श्रेयः सद्मनि धन्यजन्मनि जगदेवे जगद्दातरि । वर्त्तन्ते विदुषां गृहाः प्रतिदिनं गन्धेभगन्धर्वयोरालानद्रुमरज्जुदामघटनाव्यग्रीभवत्किंकराः ॥ २ ॥ AD झेण श्रस्तदुपाध्यायः A B अक्षत्रक्षतवालिनो भगवतः कस्यापि संगीतकव्यासक्तस्य च तस्य कुन्तलपतेः पुण्यानि मन्यामहे एक: कामदुधामदुग्ध मरुतः सूनोः सुबाहुद्वयीं प्रत्यक्षप्रतिपक्षभार्गव भवानन्यस्य चिन्तामणिः ॥ १ ॥ चक्र: ० २ A पान्थं. ३ B पुष्पाणि 38 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy