Book Title: Prabandh Chintamani
Author(s): Ramchandra D Shastri
Publisher: Ramchandra D Shastri

Previous | Next

Page 328
________________ २९२ प्रबन्धचिन्तामणिः सर्ग. ५ आचाराद्वहिरेवमादिचारितै शबद्धरागा हरे' सन्तो नोपदिशन्ति यस्य गुरवस्तस्येदमाचेष्टितम् १ इति तद्विज्ञानाङ्कुशेन वशंवदमनोगजो निजचरित्रैकवित्सानुशयः स्वममन्दं निन्दंस्तद्व्यसनं शनैर्निषिध्य तं राजा पुनरेव प्रधानीचकार ॥ इति लक्ष्मसेनोमापतिधरयोः प्रबन्धः ॥ अथ काशीनगर्यो जयचन्द्र इति नृपः प्राज्यसाम्राज्यलक्ष्मीं पालयन्पारीत बिरुदं बभार । यतो यमुनागङ्गायष्टियुगावलम्बनमन्तरेण चमूसमूहव्याकुलित तया क्वापि गन्तुं न प्रभवति । कस्मिन्नप्यवसरे तत्र वास्तव्यस्य कस्यापि शालापतेः पत्नी सहवनाम्नी सौन्दर्यनिर्जितजगत्रयस्त्रैणा भीमग्रीष्म जलकेलिं विधाय सुरसरितीरे तस्थुपीसा खञ्जनाक्षी व्यालमौलिस्थितं खञ्जनं वीक्ष्य तमसंभाव्यं शकुनं कस्यापि द्विजन्मनः स्त्रातुमायातस्य पदोर्निपत्य तद्विचारं पप्रच्छ । स निमित्तवित् चेन्मदादेशं सदैव तनुषे तदा तव विचारमहं निवेदयामीति तेनोक्ता तव पितृनिर्विशेपस्य सा मान्या मयाज्ञा, सदैव मूर्द्धा तां वहामीति १ AB रागो हरः २८ चरित्रे किञ्चित् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378