________________
२९२ प्रबन्धचिन्तामणिः सर्ग. ५ आचाराद्वहिरेवमादिचारितै शबद्धरागा हरे' सन्तो नोपदिशन्ति यस्य गुरवस्तस्येदमाचेष्टितम् १ इति तद्विज्ञानाङ्कुशेन वशंवदमनोगजो निजचरित्रैकवित्सानुशयः स्वममन्दं निन्दंस्तद्व्यसनं शनैर्निषिध्य तं राजा पुनरेव प्रधानीचकार ॥
इति लक्ष्मसेनोमापतिधरयोः प्रबन्धः ॥ अथ काशीनगर्यो जयचन्द्र इति नृपः प्राज्यसाम्राज्यलक्ष्मीं पालयन्पारीत बिरुदं बभार । यतो यमुनागङ्गायष्टियुगावलम्बनमन्तरेण चमूसमूहव्याकुलित तया क्वापि गन्तुं न प्रभवति । कस्मिन्नप्यवसरे तत्र वास्तव्यस्य कस्यापि शालापतेः पत्नी सहवनाम्नी सौन्दर्यनिर्जितजगत्रयस्त्रैणा भीमग्रीष्म जलकेलिं विधाय सुरसरितीरे तस्थुपीसा खञ्जनाक्षी व्यालमौलिस्थितं खञ्जनं वीक्ष्य तमसंभाव्यं शकुनं कस्यापि द्विजन्मनः स्त्रातुमायातस्य पदोर्निपत्य तद्विचारं पप्रच्छ । स निमित्तवित् चेन्मदादेशं सदैव तनुषे तदा तव विचारमहं निवेदयामीति तेनोक्ता तव पितृनिर्विशेपस्य सा मान्या मयाज्ञा, सदैव मूर्द्धा तां वहामीति १ AB रागो हरः २८ चरित्रे किञ्चित्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org