SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ २९३ प्रकीर्णक प्रबन्धाः प्रतिज्ञापरायास्तस्याः सप्तमेऽहनि त्वमस्य नृपतेरयमहिषी भविष्यसीति आदिश्य द्वावपि यथागतं जग्मतुः ॥ अथ निमित्तविदा निर्णीते वासरे स राजा राजपाटिकायाः प्रत्यावृत्तः क्वापि रथ्यार्या नेपथ्यविहीनामपि अगण्यलावण्यपुण्याङ्गीं तां शालापतिबालां विलोक्य स्वचित्तसर्वस्वचौरीमूरीकृत्ययमहिंपीं चकार । तदनु तथा कृतज्ञतया विप्रप्रतिज्ञां स्मरन्त्या नृपाय तस्मिन विद्याधरनिमित्ते विज्ञप्ते पटहप्रणादपूर्वं तस्मिन् विद्याधरे आहूयमाने विद्याधराभिधानानां द्विजानां सप्तशतीमागतां विलोक्य तमेकमुपलक्षितं पृथक् कृत्वा शेषेषु यथोचितं सत्कृत्य विसृष्टेषु नृपतिर्यथेप्सितं प्रार्थयेति विद्याधरं विषद्विधुरं प्राह । राजादेशप्रमुदितेन तेनाइसेवा सदैवास्तु इति प्रार्थिते नृपतिना तथेति प्रतिपन्ने तस्य निरवधिचातुर्यं पर्यालोच्य सर्वाधिकारभारे धुरंधरो व्यधायि । स च क्रमेण संपन्न - संपन निजद्वात्रिंशदवरोधपुरध्रीणामनुवासरं जात्यकर्पूरपूराभरणानि कारयन् प्राच्यानि निर्माल्यानीत्यवकरकूपिकायां त्याजयन् साक्षाद्दैवतावतार इव १ A सर्वस्वं चौरीकृत्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy