SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ २९४ प्रबन्धचिन्तामणिः सर्ग. ५ दिव्यभोगान् भुञ्जानोऽष्टादशसहस्त्राणां ब्राह्मणानामभिलषिताभ्यवहारदानादनु स्वयमश्नाति ॥ अथ कदाचित् नृपतिना वैदेशिक भूपतिमभिषेणयितुं चतुर्दशविद्याधरोपि प्रेषितो देशाद्देशान्तराण्यवगा - हमानः कचिदिन्धनविहीने देशे विहितावासस्तेषां विप्राणां पाककाले सूपकाराणां तैलाभ्यक्तवस्त्रदुकूलान्येवेन्धनीकुर्वन् तान्विप्रान् रूढचैव भोजयामासा अथ प्रतिरिपुं निर्जित्य जितकाशितया व्यावृत्य प्राप्तनिजपुरीपरीसरः पिण्याकाभिलाषात् दुकूलज्वालनेन कुपितं भूपतिमवगम्य स्वं गृहमर्थिभिलुण्ठाप्य तीर्थोपासनवासनया संचरन् आनुपदिकेन नृपतिनानुनीयमानो मानोन्नततया नृपतेराशये स्वाभिलाषसंभवं निवेद्य कथंकथंचिदाष्टछय निजमवसानमसाधयत्। तदनन्तरं सूहवदेव्या निजाङ्गजस्य कृते युवराजपदवीं याचितो नृपः संगृहिणीपुत्रीयास्मद्वंशराज्यं न युज्यते इति बोधिता तं पतिं जिघांसुः म्लेच्छानाहूतवती ॥ अथ स्थानपुरुषाणां समायातविज्ञप्तिकया तं व्यतिकरमवधार्य लब्धपै १ A जङ्घासहस्त्राणां २० संख्यासहस्राणां ३ ( भोगार्थं रक्षिता वेश्यादिस्त्री संगृहिणी. ४ पद्मावतीनाम्नी देवी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy