________________
सिद्धराजप्रबन्धः १८१ अन्यदा म्लेच्छप्रधानषु समायतेषु मध्यदेशागतान्वेषकारकानाय रहस्यं किंचिदादिश्य विससर्ज नृपः। अथापरस्मिन्सायाहे च समागते प्रलयकाल प्रचण्डपवनप्रादुर्भावे नृपः सुधर्मसंधर्माणमास्थानीमास्थाय यावदवलोकते तावदन्तरिक्षादवतरन्तं मस्तकन्यस्तकाञ्चनेष्टिकायुगेन काञ्चनशोभा बिभ्राणं पलादयुगलमालोक्य भयभ्रान्ते समाजलो. के नृपचरणपीठे तदुपायनं विमुच्य भूपीठलुठनात्पूर्व प्रणिपत्येति विज्ञपयामास । यदद्य देवार्चनावसरे लङ्कानगयों महाराजाधिराजः श्रीविभीपणो राजस्थापनाचार्यस्य रघुकुलतिलकस्य श्रीरामस्थाभिरामगुणयामाभिरामस्य स्मरन् ज्ञानमयेन चक्षुषा संप्रति चालुक्यकुलतिलकं श्रीसिद्धराजावतारेऽवतीर्ण स्वयं स्वीयं स्वामिनमवधार्योत्कण्ठो. कटायमानमानसोऽहं तत्र प्रणामकरणायागच्छामीति किंवा प्रभुर्मामत्रागमनेनानुगृहीष्यतीति विज्ञपयन्नौ प्रहितवान् । तन्निर्णयं श्रीमुखेन समा
१ A म्लेच्छेशेषु. २ B आकूय D रहः स किंचिदाकूय ३ B C D अवसरे (४ इन्द्रसभा.) ५ D अकुण्ठोत्कण्ठाघटमान. ६ A B C नमः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org