________________
१८६
ना राजवर्गेण निषिध्यमानोपि ॥
राज्यं यातु श्रियो यान्तु यान्तु प्राणा अपि क्षणात् । या मयां स्वयमेवोक्ता वाचा मा यातु शाश्वती ॥ १ ॥ इतीष्टदैवर्तमिव तामेव गिरं जपस्तेनैव शुकेन सह दारुनिचितां चितां विवेश ।
प्रबन्धचिन्तामणिः सर्ग. ३
इति वाक्याकर्णनाच्छोकाम्भोधिमग्नां श्रीमयणलदेवीं विशेषधर्मोपदेशहस्तावलम्बनेन विद्वज्जनः समभ्युद्दधार | अथ सा पितुः श्रेयसे श्रीसोमेश्वरपतने यात्रां गता सती त्रिवेदिनं कमपि ब्राह्मणमाकार्य तदञ्जली जलन्यासावसरे यदि भवलयपातकं लासि तदा ददामि नान्यथेति तद्वचनविशेपपरितोषभाक् गजाश्वकाञ्चनादिभिर्युतं पापघटमाददौ । स च तत्सर्वं विप्रेभ्यो ददानः किमिति दे - व्या पृष्टः प्राह । प्राक्तनपुण्यादस्मिन् जन्मनि नृपप्रिया नृपतिजननी भूखा लोकोत्तरैरेभिर्दानैः सुरुतैभीवी भवोपि श्रेयस्कर इति विमृश्य भवत्रयपातकं मया जगृहे । भवत्या पापघटदाने उपक्रान्ते कश्विदधमद्विजेोपि पापघटं नीत्वा स्वं भवतीं च
१ A B याच्या २ C देवतां. ३ A त्रिवेदीवेोदनं ४ B C ददामि तदाददासि D दानैर्युतं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org