Book Title: Poojan Vidhi Samput 07 Gautamswami Mahapoojan Vidhi Rushimandal Mahapoojan Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan

Previous | Next

Page 33
________________ शिर:संलीन ईकारो, विनीलो वर्णतः स्मृतः । वर्णानुसारसंलीनं, तीर्थकृन्मण्डलं स्तुमः ।। २३ ।। चन्द्रप्रभपुष्पदन्तौ, नाद स्थिति समाश्रितौ । बिन्दुमध्यगतौ नेमि सुव्रतौ जिनसत्तमौ ।। २४ ।। पद्मप्रभ-वासुपूज्यौ, कलापदमधिष्ठितौ । शिर-ई-स्थितिसंलीनौ, पार्श्वमल्ली जिनोत्तमौ ।। २५ ।। शेषास्तीर्थकृतः सर्वे, हरस्थाने नियोजिताः । मायाबीजाक्षरं प्राप्ताश्चतुर्विंशतिरर्हताम् ।। २६ ।। गतराग-द्वेष-मोहाः, सर्वपापविवर्जिताः । सर्वदा सर्वकालेषु, ते भवन्तु जिनोत्तमाः ।। २७ ।। देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा । तयाच्छादितसर्वाङ्ग, मा मां हिनस्तु डाकिनी ।। २८ ।। देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा । तयाच्छादितसर्वाङ्गं, मा मां हिनस्तु राकिनी ।। २९ ।। देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा । तयाच्छादितसर्वाङ्ग, मा मां हिनस्तु लाकिनी ।। ३० ।। देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा । तयाच्छादितसर्वाङ्ग, मा मां हिनस्तु काकिनी ।। ३१ ।। देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा । तयाच्छादितसर्वाङ्ग, मा मां हिनस्तु शाकिनी ।। ३२ ।। देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा । तयाच्छादितसर्वाङ्ग, मा मां हिनस्तु हाकिनी ।। ३३ ।। देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा । तयाच्छादितसर्वाङ्ग, मा मां हिनस्तु याकिनी ।। ३४ ।। देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा । तयाच्छादितसर्वाङ्ग, मा मां हिंसन्तु पन्नगाः ।। ३५ ।। ૨૯

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68