Book Title: Poojan Vidhi Samput 07 Gautamswami Mahapoojan Vidhi Rushimandal Mahapoojan Vidhi Author(s): Maheshbhai F Sheth Publisher: Siddhachakra PrakashanPage 65
________________ मेरुश्रृङ्गाग्र-संस्पर्श, भूस्थः करप्रसारतः । यया कर्तु मलं स्याद्धि, तां प्राप्तिं प्रणमाम्यहम् ।।६।। सुरासुरेन्द्रचक्रयर्द्धि-तीर्थपद्धिविकुर्वणा । शक्ति र्ययाप्यतेऽनल्पा-मीशितां तां नमाम्यहम् ।। ७ ।। भूर्भुवः स्वस्त्रयीमध्ये, जीवाऽजीवाश्च सन्ति ये । यया ते वशमायान्ति, वशितां तां नमाम्यहम् ।।८।। ७. श्री नवनिधि पूजनम् स्कन्धावारपुरग्रामा-ऽऽकरद्रोणादिसम्भवः । यतो भवति तं सेवे, निधिं नैसर्पिकाभिधम् ।।१ ।। मानोन्मान प्रमाणानां, गणितायाऽखिलस्य च । धन-धान्यादिकोत्पत्ति-स्तं पाण्डुकनिधिं यजे ।।२।। नर-नारीगजाश्वादि-सत्कालङ्कारमालिकाः । संजायन्ते निधे र्यस्मात्, तं पिङ्गलं निधिं यजे ।। ३ ।। जायन्ते चक्रिरत्नानि चतुर्दश यतो हि तम् । एकपञ्चेन्द्रियात्मानि सर्वरत्नं निधिं भजे ।। ४ ।।। वस्त्राणां सर्वजातीनां, शुद्धानां रागिणामपि । समुत्पत्ति र्यतः स्यातं, महापद्मं नमाम्यहम् ।।५।। शुभाशुभकृषिशिल्प-वाणिज्यशतकर्मणः । त्रिकालस्य चिदुत्पत्तिः, स्यात् तं कालं यतो यजे ।।६।। ६१ स्फटिक-मौलिक-स्वर्ण-, रौप्याऽयो-रत्न-विदुमाः । जायन्ते मणयो यस्मान्, महाकालं तमर्चये ।।७।। सन्नाहाऽऽयुधयोधानां, सम्पदः स्यु र्यतो ध्रुवम् । माणवं तं निधिं वन्दे, युद्धादिनीतिसम्भवम् ।।८।। काव्योत्पत्तिश्चतुर्धा स्यात्, नाट्यनाटकयो विधिः । उद्भवोऽशेषतूर्याणां, चरमात् तं शङ्खमर्चये ।।९।।Page Navigation
1 ... 63 64 65 66 67 68