Book Title: Poojan Vidhi Samput 07 Gautamswami Mahapoojan Vidhi Rushimandal Mahapoojan Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan

Previous | Next

Page 64
________________ कल्याणसदनं देवं, चिन्तयन्ती स्वमानसे । अर्हन्नामाक्षरासक्तां, मायादेवीं नमाम्यहम् ।। १९ ।। यशस्विनी यशोदां सद्-भक्तिरसपयस्विनीम् । तेजस्विनी भजन्तीं श्री-जिनं मायाविनी भजे ।।२०।। रौद्रविघ्नादिनाशाय, रौद्रदेवादिवन्दिताम् । जिनेन्द्रोपासिकां देवीं, रौद्रीं रौद्रापहां यजे ।। २१ ।। नमस्कारमहामन्त्रा-राधिकां जिनसेविकाम् । सर्वाभीष्टप्रदां सौम्यां, कलादेवीं सुपूजये ।। २२ ।। विश्ववन्धं जिनाधीशं; पूजयन्तीं सदा सुदां । कृष्णाभां दुष्टहन्त्रीं च, कालीदेवीं प्रपूजये ।।२३।। माहात्म्यं भुवि विख्यातं, कलौ यस्याः प्रवर्तते । तीर्थकृत् भक्तियुक्तां तां, यजे देवीं कलिप्रियाम् ।।२४।। ६. अष्टमहासिद्धि पूजनम् संप्रविश्य विसच्छिद्र, तत्राऽपिचक्रवर्तिनः । भोगान् भुङक्ते यया सिद्धया, तामणिमां प्रणमाम्यहम् ।।१।। यया संजायते शीघ्रं, मेरोरपि महत्तरम् । देह वर्धन सामर्थ्य महिमां तां नमाम्यहम् ।। २ ।। जायते स्वशरीरस्य, यन्महासिद्धि शक्तितः । वायोरपि लघुत्वं तां, लघिमां प्रणमाम्यहम् ।।३।। दुःसहत्वमपीन्द्राद्यै-वपुषश्च यदा भवेत् । वज्रादपि गुरूत्वं तां, गरिमां प्रणमाम्यहम् ।। ४ ।।। भूमाविव जले चालो, जलवद् भुवि मज्जनम् । यन्महासिद्धि शक्त्या तां, प्राकाम्यां प्रणमाम्यहम् ।।५

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68