Book Title: Poojan Vidhi Samput 07 Gautamswami Mahapoojan Vidhi Rushimandal Mahapoojan Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan

Previous | Next

Page 35
________________ एताः सर्वा महादेव्यो, वर्तन्ते या जगत्त्रये । मह्यं सर्वाः प्रयच्छन्तु, कान्तिं कीर्ति धृति मतिम् ।। ४८ ।। दिव्यो गोप्यः सदुष्पाप्यः, श्रीऋषिमण्डलस्तवः । भाषितस्तीर्थनाथेन जगत्त्राणकृतेऽनघः ।। ४९ ।। रणे राजकुले वह्रो, जले दुर्गे गजे हरौ । श्मशाने विपिने घोरे, स्मृतो रक्षति मानवम् ।। ५० ।। राज्य-भ्रष्टा निजं राज्यं, पदभ्रष्टा निजं पदम् । लक्ष्मी-भ्रष्टा निजां लक्ष्मी , प्राप्नुवन्ति न संशयः।। ५१ ।। भार्यार्थी लभते भार्यां, पुत्रार्थी लभते सुतम् । वित्तार्थी लभते वित्तं, नरः स्मरणमात्रतः ।। ५२ ।। स्वर्णे-रूप्ये-पटे कांस्ये, लिखित्वा यस्तु पूजयेत् । तस्यैवाष्टमहासिद्धि-गुहे वसति शाश्वती ।। ५३ ।। भूर्जपत्रे लिखित्वेदं, गलके मूर्ध्नि वा भुजे । धारितं सर्वदा दिव्यं, सर्वभीतिविनाशकम् ।। ५४ ।। भूतैः प्रेतै है र्यक्षः, पिशाचैः मुद्गलै मलैः । वात-पित्त-कफोद्रेकै र्मुच्यते नात्र संशयः ।। ५५ ।। भूर्भुवः स्वस्त्रयीपीठ-वर्तिनः शाश्वता जिनाः । तैः स्तुतै वन्दितै दृष्टै र्यत्फलं तत्फलं श्रुतौ ।। ५६ ।। 3 एतद् गोप्यं महास्तोत्रं, न देयं यस्य कस्यचित् । मिथ्यात्ववासिने दत्ते, बालहत्या पदे पदे ।। ५७ ।। आचाम्लादितपः कृत्वा, पूजयित्वा जिनावलिम् । अष्ट साहस्त्रिको जापः, कार्यस्तत् सिद्धि-हेतवे ।। ५८ ।। शतमष्टोत्तरं प्रात-र्ये पठन्ति दिने दिने । तेषां न व्याधयो देहे, प्रभवन्ति न चापदः ।। ५९ ।।

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68