Book Title: Poojan Vidhi Samput 07 Gautamswami Mahapoojan Vidhi Rushimandal Mahapoojan Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan

Previous | Next

Page 31
________________ पूजनम् : ॐ ह्रीँकारस्था:- चतुर्विंशतिर्जिनाः सपरिकराः श्री ऋषिमण्डलाधिष्ठायका धरणेन्द्रादयो मुख्यदेव-देव्यश्च इमां पूजां प्रतीच्छन्तु प्रतीच्छन्तु । ।। अथ श्री ऋषिमण्डल स्तोत्रम् ।। आद्यन्ताक्षरसंलक्ष्य-मक्षरं व्याप्य यत् स्थितम् । अग्निज्वालासमं नाद-बिन्दुरेखासमन्वितम् ।। १ ।। अग्निज्वालासमाक्रान्तं, मनोमलविशोधकम् । देदीप्यमानं हृत्पद्मे, तत्पदं नौमि निर्मलम् ।। २ ।। अर्हमित्यक्षरं ब्रह्म,-वाचकं परमेष्ठिनः । सिद्धचक्रस्य सद्बीजं, सर्वतः प्रणिदध्महे ।। ३ ।। ॐ नमोऽर्हद्भ्य ईशेम्यः, ॐ सिद्धेभ्यो नमो नमः । ॐ नमः सर्वसूरिभ्यः, उपाध्यायेभ्य ॐ नमः ।। ४ ।। ॐ नमः सर्वसाधुभ्यः, ॐ ज्ञानेभ्यो नमो नमः । ॐ नमस्तत्त्वद्दष्टिभ्यश्चारित्रेभ्यस्तु ॐ नमः ।। ५ ।। श्रेयसेऽस्तु श्रियेस्त्वेत-दर्हदाद्यष्टकं शुभम् । स्थानेष्वष्टसु विन्यस्तं, पृथग्बीजसमन्वितम् ।। ६ । आद्यं पदं शिखां रक्षेत्, परं रक्षेत्तु मस्तकम् । तृतीयं रक्षेन्नेत्रे द्वे, तुर्यं रक्षेच्च नासिकाम् ।। ७ ।। पञ्चमं तु मुखं रक्षेत्, षष्ठं रक्षेच्च घण्टिकाम् । नाभ्यन्तं सप्तमं रक्षेद्, रक्षेत् पादान्तमष्टमम् ।। ८ ।। पूर्वं प्रणवतः सान्तः, सरेफो द्वयब्धिपञ्चषान् । सप्ताष्ट-दश- सूर्यांकान्, श्रिता बिन्दुस्वरान् पृथक् ।। ९ ।। ૨૭

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68