Book Title: Poojan Vidhi Samput 07 Gautamswami Mahapoojan Vidhi Rushimandal Mahapoojan Vidhi Author(s): Maheshbhai F Sheth Publisher: Siddhachakra PrakashanPage 32
________________ पूज्यनामाक्षरा आद्याः पञ्चैते ज्ञान-दर्शन । चारित्रेभ्यो नमो मध्ये ही सान्तः समलंकृतः ।। १० ।। जम्बूवृक्षघरो द्वीपः, क्षारोदधिसमावृतः । अर्हदाद्यष्टकैरष्ट-काष्ठाधिष्ठरलंकृतः ।। ११ ।। तन्मध्ये सङ्गतो मेरूः, कूटलक्षरलंकृतः । उच्चैरूच्चस्तरस्तार-स्तारामण्डलमण्डितः।। १२ ।। तस्योपरि सकारान्तं, बीजमध्यास्य सर्वगम् । नमामि बिंबमार्हन्त्यं, ललाटस्थं निरंजनम् ।। १३ ।। अक्षरं निर्मलं शान्तं, बहुलं जाड्यतोज्झितम् । निरीहं निरंकारं, सारं सारतरं घनम् ।। १४ ।। अनुद्धतं शुभं स्फीतं, सात्त्विकं राजसं मतम् । तामसं चिरसंबुद्धं तैजसं शर्वरी-समम् ।। १५ ।। साकारं च निराकारं, सरसं विरसं परम् । परापरं परातीतं, परं परपरापरम् ।। १६ ।। एकवर्णं द्विवर्ण च, त्रिवर्णं तुर्य वर्णकम् । पञ्चवर्ण महावर्णं, सपरं च परापरम् ।। १७ ।। सकलं निष्कलं तुष्टं, निर्वृत्तं भ्रान्तिवर्जितम् । निरञ्जनं निराकारं, निर्लेपं वीतसंशयम् ।। १८ ।। ईश्वरं ब्रह्मसंबुद्धं, शुद्धं सिद्धं मतं गुरूम् । ज्योतीरूपं महादेवं, लोकालोकप्रकाशकम् ।। १९ ।। अर्हदाख्यस्तु वर्णान्तः, सरेफो बिन्दुमण्डितः । तुर्यस्वरकला (समा) युक्तो, बहुधा नादमालितः ।। २० ।। अस्मिन् बीजे स्थिताः सर्वे, ऋषभाद्या जिनोत्तमाः । वर्णैर्निजैनिजैर्युक्ता, ध्यातव्यास्तत्र संगताः ।। २१ ।। नादश्वन्द्रसमाकारो, बिन्दु र्नीलसमप्रभः । कलारूणसमासान्तः, स्वर्णाभः सर्वतोमुखः ।। २२ ।।Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68