Book Title: Parshwanath Charitra
Author(s): Hemvijay Gani, Velsingh Nyayavyakaran Tirth
Publisher: Harsh Parishad

View full book text
Previous | Next

Page 15
________________ १० प्रस्तावः । कुमारीणां जन्मोत्सवा यागतिः, स्वस्वकृतिविधानं च । सौधर्माधिपतेरासन कम्पेन कोप:, ज्ञातयथार्थस्वरूपस्य देवेन्द्रस्य भगवतो नति स्तुती जन्मोत्सवाय सकलदेवाह्वानं संभूय चैतिः, देवराजेन मातुः स्तुतिकरणम्, पञ्चरूपेण जिनस्य मरुपरि नयनम् । अभिषेकसामश्रीणां कुम्भादीनाम्, अभिषेकस्य, धूपादिधारणविधेः, देवानां विविधचेष्टादेश्व वर्णनम् । इन्द्रकृता भागवती स्तुतिः, मातुरन्तिके भगवतो मोचनम्, नियुज्य धात्री आज्ञाप्य धनाधिपं भर्तुर्गृह धनदाने दत्त्वा च कुण्डलादि देवैरन्यदेवेन्द्रैश्च सह सौधर्माधिपतेर्नन्दीश्वर द्वीपोत्सवकृतये गमनम्, अश्वसेननृपकृतमहोत्सवः, स्थितिपतिका पुष्पदन्तदर्शन - षष्ठिजागरण-भगवन्नामविधानानि च । बाल्यचेष्टा चतुरतिशयीपांशुक्रीडा- शरीरावयव- जल के लिव्यावर्णनम् । एकदाssस्थाम्यां रा झोऽन्तिके केनचिद्र कुशस्थलनगरस्य तद्राजस्य प्रसेनजितः पार्श्वसत्रतायास्तत्कन्यकायाश्च सविस्तरवर्णनपूर्व तां कन्यां परिणेतुं यवनराजः समागत्यावरुध्य च पुरीं स्थित इत्यादिस्वागतिकारणशापनम् । श्रुतवार्तेन तयोर्निग्रहानुग्रहाय जिगमिषुणा राज्ञा कारित. भेरीभोङ्कारं श्रुतिपथं प्राप्य तत्र पार्श्वगतिः । पार्श्वेन निषिध्य पितरं गत्वा स्वयं दूतप्रेषणम्, दूतोक्तिः, यवनराजप्रत्युक्तिः, दूतमारणायोद्यतानां मन्त्रिणा निषेधनं यवनराजस्य च प्रतिबोधः । यवनराजस्य स्वाम्यग्रे आगमनम्, क्षमाप्रार्थनम्, प्रभुणा चोपदेशार्पणम् । प्रभावत्याः पाणिग्रहणे प्रार्थितस्य प्रभोरमनने प्रभावतीमा - दाय प्रसेनजितः भगवता सह काश्यां गमनम् । प्रवेशे नगरवर्णनम्, प्रसेनजित्प्रार्थनयाऽश्वसेनस्य प्रभोः पाणिग्रहणे प्रेरणम, प्रभोस्तं प्रत्युपदेशरूपा वाचोयुक्तिः, पितुराज्ञया पाणिग्रहणस्वीकृतिः, विवाहस्य सस्त्रीकस्य प्रभोर्विहारस्य च वर्णनम् । पञ्चमे सर्गे । सौधमूर्धस्थितेन प्रभुणा पूजासामग्रीसहितान् नगराद् बहिर्यातो जनान् विलोक्य पृष्टेन सेवकेन कमठवृत्तान्तकथनम् । प्रभोरित्वा तं विधाय वार्ता सर्वजनप्रतीत्यर्थं कमठज्वालित काष्ठमध्याद निःसार्य ज्वलन्त महिं प्रश्राव्य सेवकमुखाद् महामन्त्र संगमय्य च तं सर्प धरणेन्द्रत्वं स्वभवनागमनम् । वसन्तागमः, तदानीमुद्यानगमनम्, उद्यानगृहभित्तिचित्रितनेमिचरित्रं समीक्ष्य प्रभोर्वैराग्योत्पत्तिः, एत्य लोकान्तिकैः प्रतिबुद्धस्याप्याचारवशात् प्रतिबोधनम्, भगवद्भाच Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 212