Book Title: Panchvastuka Granth
Author(s): Haribhadrasuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 5
________________ पुकाः, सर्वविरत्यभिलाषाभावे तु तस्यास्तथात्वाभावः, स्पष्टं चेदं 'यतिधर्मानुरक्तानां, देशतः स्याद्गारिणामिति श्रीहेमचन्द्राचार्यवचसा, आस्तां देशविरतेरवाप्तिः परं सर्वविरतिमनभिलाषुकाणां सम्यक्त्वस्याप्यभावः, यतः सम्यक्त्वचिह्नेषु संवेगो निर्वेदश्च मुख्यतया जेगीयेते पारङ्गतागमतत्त्वज्ञैः न च तौ सर्वविरत्यभिलाषमन्तरेण तथेति सुस्थता सर्वविरत्यभिलापस्य यावज्जैनं व्याप्यतायां, प्रस्तुतं च प्रकरणं सर्वविरतानेवोद्दिश्य प्रवृत्तमिति मुमुक्षूणामनन्यमनस्कतयोपादेयोऽस्य विषयः, नाम चास्य सान्वर्थमेव, यतः पश्चैव प्रतिपादितान्यत्र वस्तूनि, आदौ तावत् प्रव्रज्याया विधानं पञ्चात् प्रतिदिनक्रिया तृतीये स्थाने व्रतोत्थापना तुरीये च वस्तुनि आचार्यत्वगणयोरनुज्ञा अन्त्ये च अभ्युद्यतविहारोऽभ्युद्यतमरणं चाख्यायि, क्रमस्यैतस्य वास्तवता पूज्यैरेव प्रतिवस्तुप्रारंभं स्वयं प्रादर्शीति न तत्रायासः प्रव्रज्याविधाननामके आये वस्तुनि भगवता प्रब्रज्यायाः योग्यतां प्रतिपादयता प्रव्रज्यायाः स्वरूपं तद्दानादयश्च पदार्थाः स्फुटतरं प्रतिपादिताः, अत्र श्रीमद्भिर्वादिमुखानि मुद्रयितुं सपूर्वपक्षं दीक्षाकालः अष्टवर्ष्याः आसप्ततिं वर्षाणि प्रतिपादितः, न च वाच्यं अष्टवर्षप्रमाणस्य कथं दीक्षार्हतेति, यतः राजकीये शासने तु वर्षसप्तकादूर्ध्वं बुद्धिमत्वेऽपराधकारिता तच्छिक्षा च प्रतिपादिता, दृश्यतामेतदीयो नियमः, एवं च सिद्धमेतद् यदुत वर्षाष्टकादूर्ध्व भवेत् केषाञ्चित् बुद्धेः परिपक्कता यतः स्वीकृता तत्र तेषामप्यपराधिता, तथाच सति वर्षाष्टकात् परतो दीक्षादानं किमिव बुद्धिपरिपक्कताविषयं न स्यात् ?, तथा च स एव दीक्षार्हस्य कालो निर्णीतः श्रीमद्भिः, तथैव भुक्तभोगानामभुक्तभोगानां च कुटुम्बयुतानामितरेषां च दीक्षा सपूर्वपक्षं निर्णीता, निर्णीतं च वैराग्यबुद्धेः प्राबल्यं, स्वजनकृतशोकाक्रन्दनविलापानां तमन्तरा स्वजनकृताकार्यस्यापि च कर्मबन्धाहेतुत्वं, निरस्ता चोत्थाप्य पूर्वपक्षं गृहाश्रमस्योत्तमता, तथाच आधुनिकानां बालदीक्षा दिविषयः प्रलापो दुरापास्तप्रसर एव, विशेषार्थिना तु विलोकनीयः सविवरणः प्रस्तुत एवाधिकारोऽत्रत्यः, यथाच तैरेव पूज्यैः पञ्चसूत्रीविवरणे मातापितराभ्यां अमुत्क Jain Education International For Private & Personal Use Only Shainelibrary.org

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 630