Book Title: Panchvastuka Granth
Author(s): Haribhadrasuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 4
________________ श्रीपञ्चत्र स्तु० ॥ २ ॥ एवमुपक्रम्योत्तमश्रुतं व्याख्यातं तथा च तस्य दृष्टिवादोद्धृतत्वमव्याहृतं, तस्य तथात्वावबोधश्च श्रीमतां पूर्वधरासन्नकालभावादेव, किंचस्तवपरिज्ञा या समग्रा धृता सूरिभिः सा न स्वयंकृता, किंतु प्राभृतरूपा, यत आहुः दशाधिकैकादशशततमगाथावृत्तौ "स्तवपरिज्ञादयः प्राभृतविशेषा गृह्यन्ते” तथाच स्तवपरिज्ञायाः प्राभृतत्वं न विवादास्पदं, प्राभृतानि च पूर्वांशरूपाणीति तु 'पाहुडपाहुडपाहुडे' त्या दिज्ञातृणां सुप्रतीतमिति श्रीमतां सूरीणां पूर्वधरकालासन्नता निर्विवादा, एवं च श्रीमतां प्रकरणरत्नरत्नाकरः सूत्रानुपात्येवेति न सूत्रश्रद्धालूनां शावकाशः कोऽपि प्रामाण्ये तदीयप्रकरणानां यथा च श्रीमद्भिः पञ्चाशकादीनि प्रकरणानि समयपाथोधिनवनीतरूपाणि विहितानि तथैतदपि पञ्चवस्तुकाभिधानं प्रकरणं प्राणायि, यद्यपि बहूनि उपलभ्यन्ते श्रीमद्भिः सूत्रितानि प्रकरणानि आप्तशास्त्रविवरणानि च तथापि क्रमस्तेषां न ज्ञायते, तदज्ञानाच्च श्रीमद्भिः कस्य प्रकरणरत्नस्यादौ कस्य च प्रकरणरत्नस्य पञ्चाद्विहिताऽस्य ग्रन्थरत्नस्य संकलनेति न निश्श्रीयते, तथापि ग्रन्थरत्नमिदं भवविरहाङ्कुरेव श्रीहरिभद्रसूरिभिः संदृब्धमिति तु 'आयाणुसरणत्थं भवविरहं इच्छमाणेणं' ति (१७१३) गाथावयवधृतभवविरहाङ्कतः स्पष्टमेव प्रतीयते, भवविरहाङ्कता च श्रीमतां श्रीमत्या अष्टकवृत्तेः पञ्चाशक वृत्त्यादेश्च स्पठैव, टीका तु प्रस्तुता 'कृतिर्धर्मतो याकिनी महत्तरासू नोराचार्य हरिभद्रस्ये 'ति प्रान्त्यस्पष्ट लेखेन श्रीमद्भिरेव विहितेति प्रस्तुतग्रन्थरत्नस्य स्वोपज्ञवृत्तियुक्ततेति सुखेन निश्चीयते, एवं ग्रन्थकर्तृषु आप्तेषु निश्चितेषु विषयो विचार्यते, यतो यथा प्रन्थविधातृणां माहात्म्येन ग्रन्थगौरवं तथैव ग्रन्थस्थविषयस्य महन्त्वेन प्रन्थमाहात्म्यं, आद्यं श्रद्धानुसारिणां स्वभावसिद्धं परमपरं तु तेषां तर्कानुसारिणां चेति ग्रन्थोल्लिखितो विषयो विचारणीयः, श्रीजैनशासनश्रद्धालूनां न नूनमेतत् निश्चेयं यदुत जैनशासनं समयं सच्चारित्रद्वारैव मुक्तिप्राप्तिख्यापकं, यद्यपि देशविरतिरूपं चारित्रं मोक्षसुखप्राप्तिहेतुस्तथापि तस्य तथात्वं सर्वविरतिचारित्रावाप्तिद्वारा, न तु जातुचिदपि स्वतन्त्रतया, किंच- देशविरतेरपि सद्भाव स्तेषामेव ये सर्वविरतिमभिला Jain Educatioemational For Private & Personal Use Only उपोद्घातः ॥ २ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 630