Book Title: Panchvastuka Granth Author(s): Haribhadrasuri, Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 3
________________ ॥ श्रीजिनाय नमः ॥ श्रीमद्धरिभद्रसूरिसूत्रितस्य श्रीपञ्चवस्तुग्रन्थस्य स्वोपज्ञवृत्तिकस्य उपोद्घातः । शेमुषीधनाः ! स्वीक्रियतामिदं प्रन्थरत्नमुपदीक्रियमाणं मुद्रयित्वा मन्थरत्नता चास्य विधातुः विषयस्य प्रामाण्यतायाश्चानन्यतुल्यत्वात्, के विधातार इति चेत् परः सहस्रप्रन्थोद्धारसौधसूत्रण सूत्रधारायमाणाः श्रीमन्तो हरिभद्रसूरयः, तत्रभवतां सत्ताकालादिविषयो निर्णयश्च योगदृष्टिसमुच्चयोपमितिभवप्रपञ्चकथापश्चाशक प्रस्ताव नादावस्माभिरुल्लिखितः श्रीधर्मसंग्रहण्यादिषु च तत्तत्प्रस्तावकैरुल्लिखितः, न विवादो विदुषां श्रीमतां सत्ता समयस्य वैक्रमीयपष्ठशताब्द्यां भावित्वे, विचारसारादिग्रन्थकारा अपि एतदेवाख्यान्ति, ततः सुस्थमेतत् - श्रीमन्तः वैक्रमी षष्ठशताब्दीकाले सत्तावन्तः तथा च श्रीमतां पूर्वघरानेहो निकटकालभावित्वं न दुर्जेयं, अत एव च श्रीमद्भिरत्रापि प्रकरणे अनुयोगानुज्ञाधिकारे दृष्टिवादोद्धृतस्य धर्मविषयककषादिभेदस्य स्तवपरिज्ञायाश्च तथाविधाया व्याख्याकरणमन्वज्ञायि, यतस्त आहुः एकोनविंशति| विंशत्यधिकसहस्रुतमगाथयोः तद्वृत्तौ च " दिट्टिवायाई । ततो वा निज्जूढं” ततो वा-दृष्टिवादादेः निर्व्यूढं- आकृष्टं ॥ निर्व्यूढलक्षणमाह - " सम्मं धम्मविसेसो जहिअं कसछे अतावपरिसुद्धो । वणिज्जइ निज्जूढं " - सम्यग् निर्व्यूढमेवंविधं भवति प्रन्थरूपं तच्च उत्तमश्रुतादि Jain Educational For Private & Personal Use Only w.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 630