Book Title: Panch Sanyat Prakaranam
Author(s): Kunvarji Anandji
Publisher: Kunvarji Anandji
View full book text
________________
*0=0=0=0=0=0=0=0= = श्रीभगवती सूत्रांतर्गत
9
"
स्तानि संयमस्थानान्येकविंशतिः, तत्रैकमुपरितनं यथाख्यातस्य, ततोऽधस्तनानि चत्वारि सूक्ष्मसम्परायस्य, तानि च तस्मादसङ्खयेयगुणानि दृश्यानि, तेभ्योऽघश्चत्वारि परि - हृत्यान्यान्यष्टौ परिहारिकस्य, तानि च पूर्वेभ्योऽसङ्ख्येयगुणानि दृश्यानि ततः परिहृतानि यानि चत्वार्यष्टौ च पूर्वोक्तानि तेभ्योऽन्यानि च चत्वारीत्येवं तानि षोडश सामायिकच्छेदोपस्थापनीयसंयतयोः पूर्वेभ्यश्चैतान्यसङ्ख्यातगुणानीति ॥ सन्निकर्षद्वारे - ' सामाइयसंजमे णं भंते ! सामाइयसंजयस्से 'त्यादौ सिय हीणे' त्ति असङ्ख्यातानि तस्य संयमस्थानानि, तत्र च यदैको ही शुद्धिकेऽन्यस्त्वितरत्र वर्त्तते तदैको हीनोऽन्यस्त्वभ्यधिकः, यदा तु समाने संयमस्थाने वर्त्तते तदा तुल्ये, हीनाधिकत्वे च षट्स्थानपतितत्वं स्यादत एवाहछाणवडिए 'ति ॥ उपयोगद्वारे - सामायिक संयतादीनां पुलाकवदुपयोगद्वयं भवति, सूक्ष्मसम्परायसंयतस्य तु विशेषोपदर्शनार्थमाह - ' नवरं सुहुमसंपराइए' इत्यादि, सूक्ष्मसम्परायः साकारोपयुक्तस्तथास्वभावत्वादिति || लेश्याद्वारे - यथाख्यातसंयतः स्नातकसमान उक्तः, स्नातकश्च सलेश्यो वा स्यादलेश्यो वा, यदि सलेश्यस्तदा परमशुक्ललेश्यः स्यादित्येवमुक्तः, यथाख्यातसंयतस्य तु
*0=0=0=0=0=0[ ६० ]p=0=0=0=0=D
6

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86