Book Title: Panch Sanyat Prakaranam
Author(s): Kunvarji Anandji
Publisher: Kunvarji Anandji

View full book text
Previous | Next

Page 83
________________ *===========श्रीभगवतीसूत्रांतर्गत कश्चित्परिहारविशुद्धिकं प्रतिपन्नस्तस्यान्तिके तजीवितान्तेऽन्यस्तादृश एव तत्प्रतिपन्न इत्येवं पूर्वकोटीद्वयं तथैव देशोनं परिहारविशुद्धिकसंयतत्वं स्यादिति ॥ अन्तरद्वारे-'छेओवट्ठावणिए'त्यादौ 'जहन्नेणं तेवहि वाससहस्साईति, कथम् ?, अवसपिण्यां दुष्षमा यावच्छेदोपस्थापनीयं प्रवर्तते ततस्तस्या एवैकविंशतिवर्षसहस्रमानायामेकान्तदुष्षमायामुत्सपिण्याश्चैकान्तदुष्षमायां दुष्षमायां च तत्प्रमाणायामेव तदभावः स्यात् एवं चैकविंशतिवर्षसहस्रमानत्रयेण त्रिषष्टिवर्षसहस्राणामन्तरमिति, 'उकोसेणं अट्ठारस सागरो. वमकोडाकोडीओ'ति किलोत्सपिण्यां चतुर्विंशतितमजिनतीर्थे छेदोपस्थापनीयं प्रवर्त्तते ततश्च सुषमदुष्षमादिसमात्रये क्रमेण द्वित्रिचतुःसागरोपमकोटीकोटीप्रमाणे अतीते अवसपिण्याश्चैकान्तसुषमादित्रये क्रमेण चतुस्त्रिद्विसागरोपमकोटी२प्रमाणे अतीतप्राये प्रथमजिनतीर्थे छेदोपस्थापनीयं प्रवर्त्तत इत्येवं यथोक्तं छेदोपस्थापनीयस्यान्तरं भवति, यच्चेह किञ्चिन्न पूर्यते यच्च पूर्वसूत्रेऽतिरिच्यते तदल्पत्वान्न विवक्षितमिति, 'परिहारविसुद्धियस्से'त्यादि, परिहारविशुद्धिकसंयतस्यान्तरं जघन्यं चतुरशीतिवर्षसहस्राणि, कथम् ?, अवसर्पिण्या दुष्षमैकान्तदुष्षमयोरुत्सपिण्याश्चैकान्तदुष्षमादुष्षमयोः प्रत्येकमेकविंशतिवर्षसहस्र•c=c=d=d=c=o[ ७४ ]d=v=v=o=d=Dte

Loading...

Page Navigation
1 ... 81 82 83 84 85 86