Book Title: Panch Sanyat Prakaranam
Author(s): Kunvarji Anandji
Publisher: Kunvarji Anandji
View full book text
________________
पंच संयत विवरण- ==0=
जन्मपालितमित्येवमेकोनत्रिंशद्वर्षोनां पूर्वकोटिं यावत्तत्स्यादिति, 'अहक्खाए जहा सामाइयसंजए 'ति तत्र जघन्यत एकं समयं उपशमावस्थायां मरणात्, उत्कर्षतो देशोना पूर्वकोटी, स्नातकयथाख्यातापेक्षयेति । पृथक्त्वेन कालचिन्तायां 'छेओवट्ठावणिए' इत्यादि, तत्रोत्सपि - ण्यामादितीर्थकरस्य तीर्थ यावच्छेदोपस्थापनीयं भवतीति, तीर्थ च तस्य सार्द्धे द्वे वर्षशते भवतीत्यत उक्तं- ' अड्डाइज्जाई' इत्यादि, तथाऽवसपिण्यामादितीर्थकरस्य तीर्थं यावच्छेदोपस्थापनीयं प्रवर्त्तते तच्च पञ्चाशत्सागरोपमकोटीलक्षा इत्यतः ‘उक्कोसेणं पन्नास ' मित्याद्युक्तमिति । परिहारविशुद्धिककालो जघन्येन 'देसूणाई दो वाससयाई' ति, कथम् १, उत्सपिण्यामाद्यस्य जिनस्य समीपे कश्चिद्वर्षशतायुः परिहारविशुद्धिकं प्रतिपन्नस्तस्यान्तिके तज्जीवि - तान्तेऽन्यो वर्षशतायुरेव ततः परतो न तस्य प्रतिपत्तिरस्तीत्येवं द्वे वर्षशते, तयोश्च प्रत्येकमेकोनत्रिंशति वर्षेषु गतेषु तत्प्रतिपत्तिरित्येवमष्टपञ्चाशता वर्षैर्न्यने ते इति देशोने इत्युक्तं, एतच्च टीकाकारव्याख्यानं, चूर्णिकारव्याख्यानमप्येवमेव, किन्त्ववसप्पिण्यन्तिमजिनापेक्षमिति विशेषः, 'उक्कोसेणं देसूणाओ दो पुव्वकोडीओ' चि, कथम् ?, अवसपिण्यामादितीर्थकरस्यान्तिके पूर्वकोव्यायुः
=====O
*0=0=0=0=0=0[ ko ]d=0=0=0=0=0«

Page Navigation
1 ... 80 81 82 83 84 85 86