SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ पंच संयत विवरण- ==0= जन्मपालितमित्येवमेकोनत्रिंशद्वर्षोनां पूर्वकोटिं यावत्तत्स्यादिति, 'अहक्खाए जहा सामाइयसंजए 'ति तत्र जघन्यत एकं समयं उपशमावस्थायां मरणात्, उत्कर्षतो देशोना पूर्वकोटी, स्नातकयथाख्यातापेक्षयेति । पृथक्त्वेन कालचिन्तायां 'छेओवट्ठावणिए' इत्यादि, तत्रोत्सपि - ण्यामादितीर्थकरस्य तीर्थ यावच्छेदोपस्थापनीयं भवतीति, तीर्थ च तस्य सार्द्धे द्वे वर्षशते भवतीत्यत उक्तं- ' अड्डाइज्जाई' इत्यादि, तथाऽवसपिण्यामादितीर्थकरस्य तीर्थं यावच्छेदोपस्थापनीयं प्रवर्त्तते तच्च पञ्चाशत्सागरोपमकोटीलक्षा इत्यतः ‘उक्कोसेणं पन्नास ' मित्याद्युक्तमिति । परिहारविशुद्धिककालो जघन्येन 'देसूणाई दो वाससयाई' ति, कथम् १, उत्सपिण्यामाद्यस्य जिनस्य समीपे कश्चिद्वर्षशतायुः परिहारविशुद्धिकं प्रतिपन्नस्तस्यान्तिके तज्जीवि - तान्तेऽन्यो वर्षशतायुरेव ततः परतो न तस्य प्रतिपत्तिरस्तीत्येवं द्वे वर्षशते, तयोश्च प्रत्येकमेकोनत्रिंशति वर्षेषु गतेषु तत्प्रतिपत्तिरित्येवमष्टपञ्चाशता वर्षैर्न्यने ते इति देशोने इत्युक्तं, एतच्च टीकाकारव्याख्यानं, चूर्णिकारव्याख्यानमप्येवमेव, किन्त्ववसप्पिण्यन्तिमजिनापेक्षमिति विशेषः, 'उक्कोसेणं देसूणाओ दो पुव्वकोडीओ' चि, कथम् ?, अवसपिण्यामादितीर्थकरस्यान्तिके पूर्वकोव्यायुः =====O *0=0=0=0=0=0[ ko ]d=0=0=0=0=0«
SR No.022245
Book TitlePanch Sanyat Prakaranam
Original Sutra AuthorN/A
AuthorKunvarji Anandji
PublisherKunvarji Anandji
Publication Year1937
Total Pages86
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy