Book Title: Panch Sanyat Prakaranam
Author(s): Kunvarji Anandji
Publisher: Kunvarji Anandji
View full book text
________________
]=0=0=0=0=0=0=0= = श्रीभगवती सूत्रांतर्गत ' उक्कोसेणं तिन्नि ' त्ति परिहारविशुद्धिकसंयतत्वं त्रीन् वारान् एकत्र भवे उत्कर्षतः प्रतिपद्यते, 'सुहमसंपरायस्से' त्यादौ ' उक्कोसेणं चत्तारि 'त्ति एकत्र भवे उपशमणीद्वयसम्भवेन प्रत्येकं सङ्क्क्लिश्यमानविशुद्धयमानलक्षणसूक्ष्मसम्परायद्वयभावाच्चतस्रः प्रतिपत्तयः सूक्ष्मसम्पराय - संयतत्वे भवन्ति, 'अहक्खाए' इत्यादौ 'उक्कोसेणं दोन्नि' त्ति उपशमश्रेणीद्वयसम्भवादिति । नानाभवग्रहणाकर्षाधिकारे 'छेओवद्वावणीयस्से' त्यादौ 'उक्को सेणं उवरिं नवहं सयाणं अंतोसहस्स' त्ति, कथं १ किलैकत्र भवग्रहणे षड्विंशतय आकर्षाणां भवन्ति, ताश्चाष्टाभिर्भवैगुणिता नव शतानि षष्ट्यधिकानि भवन्ति, इदं च सम्भवमात्रमाश्रित्य सङ्ख्याविशेषप्रदर्शनमतोऽन्यथाऽपि यथा नव शतान्यधिकानि भवन्ति तथा कार्यं, 'परिहारविसुद्धिस्से' त्यादौ ' उक्कोसेणं सत्त' त्ति कथम् ? एकत्र भवे तेषां त्रयाणामुक्तत्वात् भवत्रयस्य च तस्याभिधानादेकत्र भवे श्रयं द्वितिये द्वयं तृतीये द्वयमित्यादिविकल्पतः सप्ताकर्षाः परिहारविशुद्धिकस्येति । 'सुहुमसंपरायसे' त्यादौ 'उक्कोसेणं नव'त्ति कथं ?, सूक्ष्मसम्परायस्यैकत्र भवे आकर्षचतुष्कस्योक्तत्वाद्भवत्रयस्य च तस्याभिधानादेकत्र चत्वारो द्वितीयेऽपि चत्वारस्तृतीये चैक इत्येवं नवेति । ' अहक्खाए ' इत्यादौ ' उक्कोसेणं
=0=0=0=0[ ६८ ]d=०=०=०=
===
⇒⇒

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86