Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 5
________________ ग्रन्थकुञ्चरितं नाम द्वितीय उपोद्घातः । महेश्वरनियोगप्रसादावधिगम्य वैशेषिकदर्शनं प्रणिनाय । वैशेषिकदर्शने चाध्यायदशकम् । प्रत्यध्यायमाह्निकद्वयम् । वैशेषिकदर्शनस्य सूत्राणि तु सप्तत्यधिकानि त्रीणि शतानि ( ३७० ) इति । ( ३ ) वात्स्यायनः परमर्षिर्न्यायसूत्राणां भाष्यमकरोत् । ( ४ ) प्रशस्तपादाचार्यश्च वैशेषिकसूत्रीणां भाष्यमकरोत् । अस्य (प्रशस्त किं च - वैशेषिके दर्शनेऽनुमानस्य संक्षेपतो वर्णनात् हेत्वाभासस्य त्रैविध्य कथनाचेति 'पूर्वं कणादेन पूर्वोक्तविषयस्य रीतिः समुद्भाविता । ततोऽनन्तरमक्षपादेन विस्तारिता सम्यङ्निबद्धा च । समानतन्त्रे वैशेषिके प्रतितन्त्रसिद्धान्तसिद्धं नैयायिकस्य मनस इन्द्रियत्वम्' इति वैशेषिकदर्शनस्य न्यायदर्शनादपि प्राचीनत्वमप्यवगम्यते इति । तदेतत्केषांचित्प्रकल्पनं चादूरदर्शित्वेन 'कहां रामराज, कहां पोतराज' इति प्राकृतन्यायसमाकलितम् इत्यतो वयं सकलसूत्रशास्त्रतात्पर्याकलनादित्थं प्रतीमः - महाभारतप्रति । पादित उलूकर्षिरस्मादुलूकनाम्नः कणादाद्भिन्न एव । 'महद्दीर्घवद्व । ' इत्यादिब्रह्मसूत्राणां अनादिसिद्धवैशेषिकमतखण्डनपरत्वमेव न त्वर्वाचीनकणादर्षिप्रणीतसूत्रार्थखण्डनपरत्वम् । एवमेव जैमिनिमीमांसादर्शनस्यापि तात्पर्यमुन्नयम् । रावणस्तु कश्चनार्वाचीनब्राह्मण एव न तु श्रीरामद्वेष्टा रामायणप्रतिपाद्यः पौलस्यः इति । न केवलं हेत्वाभासत्रैविध्यरूपसंक्षेपकथनेनैव न्यायदर्शनात्प्राचीनत्वं कणाददर्शनस्य संभवति । यतो विपरीतमपि वक्तुं शक्येत । तथा हि—'न्यायदर्शने हेत्वाभासानां पञ्चत्वं प्रथमतः प्रतिपादितम् तदनन्तरं कणादेन पञ्चत्वं परित्यज्य हेत्वाभासस्य युक्त्या संक्षेपतो वा त्रैविध्यं प्रतिपादितम्' इत्यपि वक्तुं शक्यते इति । तस्मात् 'ब्रह्मसूत्रम् जैमिनिमीमांसासूत्रम् न्यायसूत्रम् वैशेषिकसूत्रम् सांख्यसूत्रम् योगसूत्रम्' इत्येवं क्रमेण सूत्राणि संबंभूवुः इति ममाभिमतिः । ४ 'दर्शनान्तरकारैरनङ्गीकृतस्य 'विशेष' पदार्थस्याङ्गीकारादस्य वैशेषिकतया प्रसिद्धि : ' इति केचिदन्ति । वस्तुतस्तु — "द्वित्वे च पाकजोत्पत्तौ विभागे च विभागजे । यस्य न स्खलिता बुद्धिस्तं वै वैशेषिकं विदुः” इति । ५ भाष्यलक्षणं च “सूत्रार्थो वर्ण्यते येन पदैः सूत्रानुसारिमिः । स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः” इति । ६ केचित्तु – बौधायनसूत्रे प्रवराध्याये आङ्गिरसगणान्तःपातिशारद्वतगणे पठितः 'प्रशस्तः' इत्येनममन्यन्त । अन्ये तु - 'प्रवररत्न' ग्रन्थे आङ्गिरसगणे गौतमवर्गे पठितः 'प्रशस्तः' इति प्रशस्तनामानमेनं मेनिरे । ७ अत्र —‘वैशेषिकसूत्राणां भारद्वाजवृत्तिर्गङ्गाधरकविरत्नकविराजकृताऽस्ति' इति श्रूयते । अन्ये तु -- भारद्वाजनाम्नोद्योतकराचार्येणयं वृत्तिः कृता इत्याहुः । अन्ये तु - 'उद्योतकराचार्यस्यैव 'भारद्वाज' इति नाम तेन कृता वृत्तिर्भारद्वाजवृत्तिः' इति मन्यन्ते । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 1102