Book Title: Nyayakosh Author(s): Bhimacharya, Vasudev Shastri Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir View full book textPage 3
________________ अथ ग्रन्थकृदुद्देशो नाम प्रथम उपोद्धातः । प्राचीनार्वाचीनन्याय-तर्कग्रन्थालोडनाकलनाभ्यां प्रसिद्धतादृशग्रन्थकृतामित्थं पूर्वापरीभावक्रमं प्रतीम:- ( १ ) पूर्व महर्षिौतम आसीत् ( २ ) ततो महर्षिः कणादः ( ३ ) ततो महषिर्वात्स्यायनः ( ४ ) ततः प्रशस्तपादाचार्यः ( ५) तत उद्योतकराचार्यः (६) ततो वाचस्पतिमिश्रः (७) ततः शिवादित्यमिश्रः ( व्योमशिवाचार्यः ) (८) तत उदयनाचार्यः ( ९ ) ततः श्रीधराचार्यः (१०) ततो वल्लभाचार्यः (११) ततो गङ्गेशोपाध्यायः (१२) ततो वर्धमानोपाध्यायः (१३ ) ततो वासुदेवभट्टाचार्यसार्वभौमः (१४) जयदेवमिश्रश्च ( पक्षधरमिश्रः ) (१५) ततो रघुनाथतार्किकशिरोमणिः (१६) ततो मथुरानाथतर्कवागीशः (१७) ततः कणादापरनामा रघुदेवः (१८ ) ततः शंकरमिश्रः ( १९) ततः प्रगल्भः (२०) ततो भवानन्दः (२१) ततो जगदीशः (२२) ततो गदाधरचक्रवर्ती (२३) भगीरथठक्कुरश्च ( २४ ) ततो रुचिदत्तः ( भक्तुनामा ) (२५) ततः केशवमिश्रः (२६) ततो वरदराजः (२७) ततः पद्मनाभः (२८ ) ततो जानकीनाथ: (२९) ततो रामभद्रः ( ३० ) विश्वनाथन्यायपश्चाननश्च ( ३१ ) ततो रुद्रभट्टाचार्यः (३२ ) अन्नंभट्टश्च इत्यलं विस्तरेण । अथ ग्रन्थकृच्चरितं नाम द्वितीय उपोद्धातः। इदानीं ग्रन्थकाराणां क्रमेण जन्मस्थितिकालचरितं निरूप्यतेतत्र ( १ ) महर्षिौतम आत्रेयः । स च न्यायदर्शनस्य कर्ता । न्यायदर्श १ अत्र प्रसङ्गतः षड्दर्शनानां सूत्राणां क्रमः सर्वग्रन्थाकलनात्कथ्यते—' पूर्व बादरायणीयं ब्रह्ममीमांसादर्शनं संबभूव ततो जैमिनीयं धर्ममीमांसादर्शनम् ततो गौतम न्यायदर्शनम् ततः काणादं वैशेषिकदर्शनम् ततः कापिलं सांख्यदर्शनम् ततः पातञ्जलं योगदर्शनम्' इति क्रमं वयं प्रतीमः। कोचेत्तु-'षण्णां सूत्रकाराणां समान Jain Education International For Personal & Private Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 1102