Book Title: Nyayakosh Author(s): Bhimacharya, Vasudev Shastri Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir View full book textPage 9
________________ ग्रन्थकृञ्चरितं नाम द्वितीय उपोद्धातः । (१६ ) मथुरानाथतर्कवागीश-भट्टाचार्यश्च रामतर्कालंकारात्मजः वङ्गदेशीयो रघुनाथतार्किकशिरोमणेः शिष्यः आत्मतत्त्वविवेक-तत्त्वचिन्तामणिप्रभृतिमूलग्रन्थानां रघुनाथाख्यस्वगुरुकृतानां च सर्वेषां ग्रन्थानां व्याख्यानम् (गुणप्रकाशविवृतिरहस्यादि ) कृतवान् इति । (१७) रघुदेवन्यायालंकारः (कणादापरनामा) मथुरानाथस्य शिष्यो वङ्गदेशीयः स च दीधितेरवयवग्रन्थस्य च व्याख्यां रघुनाथशिरोमणिकृतपदार्थतत्त्वनिरूपणस्य टीका (पदार्थतत्त्वविवेचनटीकाम् ) ईश्वरवादम् आकाङ्क्षावादं भाषारत्नं च कृतवान् इति । (१८) म० म० शंकरमिश्रश्च रघुदेवशिष्यो भवनाथात्मजः A कणादरहस्य॑नामानं B वैशेषिकसूत्रोपस्कारं C न्यायलीलावतीदीधितर्व्याख्यानं न्यायलीलावतीकण्ठाभरणं D बौद्धाधिकारस्य ( आत्मतत्त्वविवेकस्य ) व्याख्यानं कल्पलतानामानं च ग्रन्थं रचयामास इति । ( १९ ) प्रगल्भेश्च खण्डनोद्धाराख्यग्रन्थमकरोत् इति । (२०) भवानन्दनामा महामहोपाध्याय-न्यायपञ्चानन न्यायसिद्धान्ततर्कवागीश-भट्टाचार्यश्च A तत्त्वचिन्तामणेाख्यानं B दीधितेर्व्याख्यानं C शब्दार्थमञ्जरी, D कारकवादं च कृतवान् इति । (२१) म० म० न्यायवाचस्पति-जगदीशतर्कालंकारभट्टाचार्यश्च भवानन्दशिष्यः A प्रशस्तपादकृतभाष्यस्य व्याख्यानरूपं भाष्यसूक्तिनामानम् B शब्दशक्तिप्रकाशिकाम् C तर्कामृतम् D दीधितेष्टीको रहस्यनाम्नी च चकार इति । (२२) म०म० गदाधरमिश्रो भट्टाचार्यचक्रवर्ती च जगदीशस्य रत्नकोशकृतो हरिरामतर्कालंकारभट्टाचार्यस्य च शिष्यः A तत्त्वचिन्तामणि १८ स च ग्रन्थो भाष्याभिप्रायबोधको वार्तिकलक्षणाक्रान्तः इति ज्ञेयम् । १९ रघुनाथतार्किकशिरोमणिना दीधितिग्रन्थे पूर्वपक्षीयव्याप्तिवादे प्रगल्भकृतग्रन्थ उदाहृतः' इति 'कश्चन प्रगल्भो दीधितिकारात्पूर्वकालिक एव आसीत्' इति विज्ञायते । २० अस्यैकं पुस्तकं (शाके १४३६) वर्षे लिखितं वाराणस्यामुपलभ्यते। Jain Education International For Personal & Private Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 1102