Book Title: Nyayakosh Author(s): Bhimacharya, Vasudev Shastri Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir View full book textPage 8
________________ ग्रन्थकृञ्चरितं नाम द्वितीय उपोद्धातः । मण्डलान्तर्गते 'करिजन' ग्रामे जातः उदयनाचार्यकृतायाः किरणावल्या व्याख्यानरूपं किरणावलीप्रकाशनामानं ग्रन्थं न्यायलीलावत्या व्याख्यानरूपं न्यायलीलावतीप्रकाशनामानं ग्रन्थं उदयनकृतन्यायपरिशिष्टस्य प्रकाशं गौतमसूत्रस्य तत्त्वचिन्तामण्यादीनां व्याख्यानं च कृतवान् इति । (१३) महामहोपाध्याय-न्यायपञ्चानन-वासुदेवभट्टाचार्यसार्वभौमश्च तत्त्वचिन्तामणेर्व्याख्यानं कृतवान् । वासुदेवसार्वभौमस्य चत्वारः शिष्या आसन् -- गौराङ्गदेवः रघुनाथः रघुनन्दनः कृष्णानन्दश्चेति । तत्र (१) गौराङ्गस्तु 'भगवतो विष्णोरवतारः ( शचीनन्दनः )' इति केचिदाहुः । अन्ये तु -'विरक्तो भगवद्भक्तः' इत्याहुः । (२) रघुनाथतार्किकशिरोमणिश्च दीधितिकारो नैयायिकः । ( ३ ) रघुनन्दनभट्टाचार्यश्च धर्मशास्त्री । (४) कृष्णानन्दवागीशश्च मन्त्रशास्त्री जातः इति । एते च चत्वारस्तत्तच्छास्त्रेषु निबन्धांश्चक्रुः इति किंवदन्ती। (१४ ) जयदेवमिश्रः ( पक्षधरमिश्रः ) हरिमिश्रशिष्यो वासुदेवसार्वभौमस्य सहाध्यायी तत्त्वचिन्तामणेाख्यानमालोकनामानं ग्रन्थं चकार इति । (१५) रघुनाथभट्टाचार्यतार्किकशिरोमणिश्च वासुदेवसार्वभौमशिष्यो वङ्गदेशे नवद्वीपग्रामे नद्याशान्तिपुरे ( भाषया ' नडिया' इति प्रसिद्ध ) जातः । स च ( रघुनाथतार्किकशिरोमणिः ) A तत्त्वचिन्तामणेाख्यानं दीधितिनामानं B बौद्धाधिकारापरपर्यायस्यात्मतत्त्वविवेकस्य व्याख्यानं दीधितिनामानं C किरणावल्या न्यायलीलावत्याश्च प्रकाशस्य ( वर्धमानकृतस्य ) व्याख्यानं द्रव्यप्रकाशविवृतिं गुणप्रकाशविवृति ( विषमपद टिप्पनी ) दीधितिनामानं D पदार्थतत्त्वनिरूपणं नाम ( पदार्थखण्डनम् ) E आख्यातवादं ( आख्यातविवेकम् ) च ग्रन्थं चकार इति । १५ गौराङ्गो नाम राजास्ति । स च शालिवाहनशके (१४०७) वर्षे आविरासीत् । १६ मनुस्मृतिव्याख्यानकर्ता च राघवानन्दः अयं तु रघुनन्दनः इति तयोर्भेदः । १७ अनैतिह्यम् -- सार्वभौमे चाध्ययननिवृत्त्या स्वदेशं गते तच्छिष्ये रघुनाथशिरोमणावपि पक्षधरमिश्राचाध्येतुं समायाते कदाचित् सामान्यलक्षणायाः प्रत्यासत्त्याः खण्डने च रुते सति पक्षधरमिश्र: शिष्यत्वमापन्नं रघुनाथं प्रति प्रोवाच-"वक्षोजपानकृत्काण संशये जाग्रति स्फुटे । सामान्यलक्षणा कस्मादकस्मादपलप्यते" इति । Jain Education International For Personal & Private Use Only www.jainelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 1102