Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 6
________________ ग्रन्थकृच्चरितं नाम द्वितीय उपोद्धातः । पादाचार्यस्य ) 'प्रशस्तदेवः प्रशस्तचरणः' इति नामान्तरे । गौतमवात्स्यायनयोरिव समानतन्त्रत्वेन कणादप्रशस्तपादयोरपि परमर्षित्वम् कपिलपञ्चशिखाचार्ययोरिवाचार्यत्वं च उदयनाचार्य-कन्दलीकार-शंकरमिश्रादयः स्वीचक्रुः इति । (५) उद्योतकाराचार्यो न्यायसूत्राणां वार्तिकमकरोत् । अयं च इतो वर्षाणां द्वादशशत्याः ( १२०० ) पूर्वमासीत् । अयं च भारद्वाजगोत्रजः ' इति केचिदाहुः । तत्र मया संदिह्यते । अयं च इतो द्वादशशत्याः पूर्व कदासीत् ' इति मया न ज्ञायते च इति । . (६) वाचस्पतिमिश्रश्च न्यायवार्तिकग्रन्थस्य व्याख्यानं A न्यायवार्तिकतात्पर्यम् , B न्यायकणिकाम् , C परिशिष्टव्याख्यानं चाकरोत् इति । (७) शिवादित्यमिश्रश्च न्यायाचार्यः' इति स्तूयते । अयं च 'व्योमशिवाचार्यः' इति केचिद्वदन्ति । शिवादित्यामिश्रस्तु ‘सप्तपदार्थी'नामानं ग्रन्थमकरोत् इति । (८) उदयनाचार्यश्च विक्रमीय (८४५) वर्षादुत्तरं (१०४८) ८ वार्तिकलक्षणं च-"उक्तानुक्तद्विरुक्तानां चिन्ता यत्र प्रवर्तते । तं ग्रन्थं वार्तिकं प्राहुार्तिकज्ञा मनीषिणः” (पराशरपुरा० अ० १८) इति । ९ 'अयं वाचस्पतिमिश्रः तत्त्वचिन्तामणिप्रकाशकृतो वाचस्पतिमिश्रादन्य एव' इति केचित्पण्डिता आहुः । अयं वाचस्पतिमिश्रः 'शंकरभारतीकृतशारीरकमीमांसाख्यभाष्यस्य भामत्याख्यव्याख्याकार एव' इति बहवो मन्यन्ते। अन्ये तु-'अयं वाचस्पतिस्तु भामतीकारादन्य एव भामतीकारश्चान्यः कश्चन वेदान्तशास्त्रज्ञ आसीत्' इत्याहुः। १. 'इदं परिशिष्टं तु उदयनाचार्यकृतम्' इति केचिद्वदन्ति । अन्ये तु - इदं परिशिष्टं 'न्यायकलिकापरिशिष्टमेव' इत्यमन्यन्त । ११ व्योमशिवाचार्यस्तु प्रशस्तपादकृतभाष्यस्य टीकारूपं व्योमवती-नामानं ग्रन्थं कृतवान् । १२ 'उदयनाचार्येण सह जैनानां विवादः समजनि । अवशिष्टनास्तिकानां मूलोच्छेदश्वोदयनेन कृतः' इति जैनग्रन्थाकलनादवगम्यते । उदयनाचार्यः श्रीहर्षपितुः श्रीहीरस्य समानकालिकः । 'श्रीहर्षस्तु (शके ८८९) वर्षे आसीत्' इति नैषधटीकयाऽवगम्यते । केचित्तु-' खण्डनग्रन्थेन च श्रीहर्षात्पूर्व एवोदयन इत्यवगम्यते' इत्याहुः । यस्तु रत्नाव Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 1102