Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 4
________________ ग्रन्थकृच्चरितं नाम द्वितीय उपोद्धातः। नस्य त्वध्यायपञ्चकम् । प्रत्याध्यायमाह्निकद्वयम् । पञ्चाध्याय्याः सूत्राणां संख्या च सप्तत्रिंशदधिकपञ्चशतानि ( ५३७ ) इति । एनं महर्षिगौतम गोतमनामानं केचन मन्यन्ते । अन्ये तु- 'नैयायिकः अक्षपादः अक्षचरणः प्रशस्तपादः प्रशस्तचरणश्च' इति महर्षेौतमस्यैव नामभिदाः सन्ति इति मन्यन्ते । (२) महर्षिः कणोदः कश्यपगोत्रजः 'उलूकः' इति · औलुक्यः' इति चाख्यायते । मिथिलादेशे तस्य निवासस्थानम् । योगाचरविभूत्या कालिकत्वमेव ' इत्याहुः। चन्द्रकान्ततर्कालंकारस्तु-'सांख्यदर्शनाविष्कर्तुः कपिलस्यैव (नास्तिककपिलस्य ) दर्शनकारेषु प्राचीनतमत्वम् आदिपतञ्जलस्तत्परजत्वम् आत्रेयस्य काशकृत्स्नेश्च ततोऽवरजत्वम् कणभक्षाक्षचरणपाराशर्यजमिनीनां ततोऽप्यर्वाचीनत्वम्' इत्याह । तदुभयकथनमतीवाविचारतरम् । ननु 'वेदान्तसूत्रादौ " एतेन योगः प्रत्युक्तः” इत्यादिना योगमतखण्डनदर्शनात् योगसूत्रानन्तरमेव वेदान्तसूत्रम् उपनिषदादौ सांख्यकपिलमतप्रतिपादनात् सांख्यसूत्रानन्तरमेवोपनिषदायुत्पत्तिश्च' इति चेन्न । न ह्युपनिषदादौ प्रसिद्धाः कपिलबादरायणजैमिन्यादय आधुनिकषट्सूत्रकारी भवितुमर्हन्ति । " एतेन योगः प्रत्युक्तः" इत्यादिसूत्राणि तु अनादिसिद्धयोगसांख्यबौद्धचार्वाकादिमतखण्डनपराण्येव न त्वर्वाचीनसांख्ययोगादिसूत्र-बौद्धचार्वाकादिप्रणीतग्रन्थ खण्डनपराणि इति । एतच्च सांख्य' 'योग' 'दर्शन' इत्यादितत्तच्छब्दव्याख्यानेषु संक्षेपतः प्रदर्शितमेवेत्यत्रैव विरम्यते । बौद्धः शाक्यः । शाक्यमतं तु ख्रिस्तमतात्पूर्व (५८८) वर्षेऽभूत् । शाक्यमुनर्जन्मतः पूर्व वाल्मीकिरामायणलेखनम् । तत्र किष्किन्धाकाण्डे (१८, ३०, ३१, २) मनुवचनोद्धृतिदर्शनात् ( ८३१६-१८) मनुस्मृतस्तत्पूर्वकालिकत्वं गम्यते । मनुसंहिता तु ख्रिस्तजन्मतः पूर्व (९) नवशताब्यामभवत् । न्यायवैशेषिकादिषट्सूत्रानन्तरं मनुसंहिताभवत् इत्याहुः। २ अयं च कणभक्षणेन तपश्चरणादुञ्छन वर्तनाच्च ‘कणादः' इति प्रसिध्यति । ३ अत्रैतिह्यम् - तपस्विने कणादमुनये स्वयमीश्वर उलूकरूपधारी प्रत्यक्षीभूय पदार्थषटमुपदिदेश । तदनु स महर्षिर्लोकानुकम्पया वैशेषिकसूत्राणि चकार । तेन तद्दर्शनस्य 'औलुक्यदर्शनम्' इति नामान्तरम् । अत्र केचिद्वदन्ति- 'सोऽयं मुनिमहाभारते भीष्मस्तवराजे उलूकनाम्न उल्लेखान्महाभारतादपि पूर्वकालिकः। किं च-"न वयं षट्पदार्थवादिनो वैशेषिकादिवत्" इति सांख्यसूत्रादप्यतिप्राचीनः । एवम्-"महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम्" इति ब्रह्मसूत्रपर्यालोचनया वेदान्तदर्शनादप्येतद्दर्शनं ( वैशेषिकदर्शनम् ) प्राचीनम् । 'शब्दानामुत्पत्तिविनाशवत्त्वम्' इति काणाद-न्यायदर्शनसिद्धान्तः। स च “कमैके तत्र दर्शनात्" इत्यादिसूत्रैरुद्धृत्य महता यत्नेन जैमिनिना खण्डितः इति मीमांसातोऽपि प्राचीनत्वम् । रावणेनापि भाष्यमस्य दर्शनस्योपरि रचितमिति रत्नप्रभादौ दर्शितम् इति लङ्कापुरीस्थरावणादपि प्राचीनत्वम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 1102