Book Title: Nyayakosh Author(s): Bhimacharya, Vasudev Shastri Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir View full book textPage 7
________________ अन्थकृञ्चरितं नाम द्वितीय उपोद्धातः । ५ वर्षात्पूर्व मिथिलादेशे न्यवसत् । केचित्तु- 'अभिनवोदयनाचार्यो दक्षिणदेशे वङ्गदेशे वा जातः' इत्याहुः । उदयनाचार्यो न्यायाचार्यत्वेन प्रसिद्धः A न्यायवार्तिकतात्पर्यस्य टीकारूपं न्यायवार्तिकतात्पर्यपरिशुद्धिनामानं ग्रन्थम् B न्यायपरिशिष्टम् C प्रशस्तपादकृतभाष्यस्य व्याख्यानरूपं किरणावलीनामानं ग्रन्थम् D आत्मतत्त्वविवेकम् (बौद्धाधिकारम् ), E न्यायकुसुमाञ्जलिं च कृतवान् इति । (९) श्रीधराचार्यश्च विक्रमाब्दे (१०४८) तथा (शके ९१३) वर्षे प्रशस्तपादाचार्यकृतभाष्यस्य व्याख्यानरूपं न्यायकन्दलीनामानं ग्रन्थं कृतवान् इति । श्रीधराचार्यस्य पिता बलदेवः । माता तु अन्वोका। निवासस्तु गौडदेशापरपर्यायवङ्गदेशान्तर्गते गङ्गायाः पश्चिमे तटे ‘राढ' देशे भूरिश्रेष्ठिक इति प्रसिद्ध भूरिसृष्टिग्रामे 'राढापुरी' इत्यस्मिन् । (१०) महामहोपाध्यायो वल्लभाचार्यश्च न्यायलीलावतीनामानं ग्रन्थं कृतवान् इति । (११) गङ्गशोपाध्यायश्च इतः सप्तशत्याः पूर्वं (शके ११०० ) एकादशशतके वङ्गदेशे आसीत् । केचित्तु-- " ( शके १०३०) एतस्माद्व र्षात्पूर्वमासीत्' इत्यङ्गीचक्रुः । गङ्गेशोपाध्यायस्तु सकलन्यायतर्कग्रन्थेभ्यः सारमुद्धृत्य तत्त्वचिन्तामणि-नामानं नव्यपरिष्कारपरिष्कृतमुत्तमं ग्रन्थं विरचितवान् इति। (१२) वर्धर्मांनोपाध्यायश्च गङ्गेशोपाध्यायपुत्रः मिथिलादेशे दरभंगाल्यादौ श्रीहर्षो वत्सराज उदयनश्च प्रतिपादितः सोऽन्य एव इति । अन्ये तु-'श्रीहर्षात् पूर्व एव वाचस्पतिमिश्रः इति शंकरमिश्रग्रन्थादवगम्यते। अतो वाचस्पतिमिश्रात्पूर्वमेवोदयनाचार्य आसीत्' इत्याहुः । परे तु–'वाचस्पतिमिश्रादनन्तरकालिक एवोदयनाचार्यः इति तात्पर्यपरिशुद्धिग्रन्थेनात्मतत्त्वविवेकेन चावगम्यते' इति प्राहुः ।। १३ अत्रेदमनुमापकम् - लक्ष्मणसेननामा नृपतिर्वङ्गदेशे बभूव यस्य सभापण्डितो हलायुधभट्ट आसीत् । तस्य राज्ञः प्रवृत्तिः (शालि• शके १०३०) वर्षे प्रादुरासीत् । तथाच 'ततोऽपि पूर्वं गङ्गेशोपाध्याय आसीत्' इति निश्चीयते। १४ गणरत्नमहोदधिकारो गोविन्दसूरिशिष्यो वर्धमानस्तु जैन एव इत्यस्माद्र्धमानोपाध्यायादन्यः इति ज्ञेयम् । गणरत्नमहोदधिर्विक्रमशकवर्षेषु (११९७) अतीतेषु विरचितः इति । Jain Education International For Personal & Private Use Only www.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 1102