Book Title: Nirgrantha-1
Author(s): M A Dhaky, Jitendra B Shah
Publisher: Shardaben Chimanbhai Educational Research Centre
________________
Vol. I-1995
Jain Education International
श्री पार्श्वनाग विरचित...
अनुभूतं सकलमिदं पूर्वार्जितकर्मपरिणतिवशेन । संसारे संसरता, प्रत्यक्षं जीव ! भवतेह ॥५॥
मनसापि न वैराग्यं, व्रजसि मनागपि तथापि मूढात्मन् ! । गुरुकर्मप्राग्भारा- वेष्टित ! निर्देष्टसचेष्ट ! ॥ ६ ॥
उद्विजसे दुःखेभ्यः, समीहसे सर्वदैव सौख्यानि । अथ च न करोति तत्त्वं येन भवत्यभिमतं सकलम् ॥७॥
यज्जीव ! कृतं भवता, पूर्वं तदुपागतं तवेदानीम् । किं कुरुषे परितापं, सह मनसः परिणतिं कृत्वा ॥८॥
यदि भोः पूर्वाचरितैरशुभैः, संदौकितं तवाशर्म । तत्किं परे प्रकुप्यसि, सम्यग्भावेन सह सर्वम् ॥९॥ मा व्रज खेदं मागच्छ, दीनतां मा कुरु क्वचित्कोपम् । तत्परिणमत्यवश्यं, यदात्मनोपार्जितं पूर्वम् ॥१०॥ सुखदुःखानां कर्त्ता, हर्त्ताऽपि न कोऽपि कस्यचिज्जन्तोः इति चिन्तय सद्भुद्ध्या, पुराकृतं भुज्यते कर्म ॥ ११॥ तत्प्रार्थितमपि यत्नान्, न भवेदिह यन्न पूर्वविहितं स्यात् । मनसि न कायः शोको, यद्भान्यं तद्बलाद्भवति ॥ १२ ॥ क्रियते नैव विषादो, विपत्सु हर्षो न चैव सम्पत्सुं । इत्येष सतां मार्गः, श्रयणीयः सर्वदा धीरैः ॥ १३॥ पूर्वकृतसुकृतदुष्कृतवशेन, यदिह हंत सम्पदो विपदः । आयान्ति तदन्यस्मिन् कृतेन किं तोषदोषेण ॥ १४॥ यदिपूर्वकर्मवशवर्त्तिनो जनाः प्राप्नुवन्ति सुखदुःखे । तो निमित्तमात्रं, परो भवत्यत्र का भ्रान्तिः ॥ १५॥ मित्रं भवत्यमित्रं, स्वजनोऽपि परो न बन्धुरपि बन्धुः । कर्मकरोऽप्यविधेयः, पुंसां हि परामुखे दैवे ।। १६ ।।
न स्वामिनो न मित्रान्न, बान्धवात्पक्षपातिनो न परात् । किं बहुना कस्मादपि, न सरति कार्यं विधौ विमुखे || १७ || यदि गम्यते सकाशे, परस्य चाटूनि यदि विधीयन्ते । तदपि सुकृतेन विना, केनापि भवेत्परित्राणम् ||१८|
For Private & Personal Use Only
४१
www.jainelibrary.org
Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342