Book Title: Nirgrantha-1
Author(s): M A Dhaky, Jitendra B Shah
Publisher: Shardaben Chimanbhai Educational Research Centre

Previous | Next

Page 314
________________ Vol. I-1995 Jain Education International श्री पार्श्वनाग विरचित... यद्वन्न तृषः शान्तिर्जलं विना नक्षुधो विना ऽन्नेन । जलदं विना न सलिलं न, शर्म धर्मादृते तद्वत् ॥ ६४ ॥ सत्स्वामी सन्मित्रं, सद्वन्धुः सत्सुतः सत्कलत्रं च । सत्स्वजनः सद्भृत्यो धर्मादन्यदपि सत्सर्वम् ।।६५।। अतिनिर्मला विशाला, सकलजनानन्दकारिणी प्रवर । कीर्त्तिर्विद्या लक्ष्मी धर्मेण विजृम्भते भुवने ॥ ६६॥ आरोग्यं सौभाग्यं, धनाढ्यता नायकत्वमानन्दः । कृतपुण्यस्य स्यादिह, सदा जयो वाञ्छिताऽवाप्तिः ||६७ || सरभससुरगणसहितः, सुरयोषिज्जनितनृत्यसङ्गीतः । सुरलोके सुरनाथो, भवति हि धर्म्मानुभावेन ।। ६८ ।। न करिष्यसि चेद्धर्मं, पुनराप्स्यसि दुर्गतिं विशेषेण । दहनच्छेदनभेदन- ताडनरूपाणि दुःखानि || ६९ ॥ गच्छद्भिरपि प्राणै- बुद्धिमतां तन्न युज्यते कर्त्तुम् । उभयत्र यद्विरुद्धं, दीर्घभवभ्रमणकृदपथ्यम् ॥७०॥ अविवेकिनां नराणां, पुनरिह जननं पुनर्भवे न्मरणम् । कुर्वन्ति पण्डितास्तद् भूयोऽपि न भूयते येन ॥ ७१ ॥ कुरु भक्तिं गुणजगदीशे, सदागमे गुरुषु विदिततत्त्वेषु । अपवर्गप्रति रागं; संसारोपरि विरागं च ॥ ७२ ॥ तत्किमपि कुरु विदित्वा सद्गुरुतो ज्ञानमुत्तमं ध्यानम् । येनेह पूज्यसे त्वं, परत्र सुगतिं समाप्नोषि ॥ ७३ ॥ यत्र न जरा न मरणं, न भवं न च परिभवो न संक्लेशः । योगक्रियया ज्ञानात्, ध्यानादासादयते मुक्तिः ॥ ७४ ॥ मत्वैवं निस्सारं, संसारमनित्यतां च जगतोऽस्य । ज्ञानयुतं ध्यानं कुरु, लभसे येनाक्षयं मोक्षम् ॥ ७५ ॥ इति पार्श्वनागविरचित - मनुशासनमात्मानो विभावयताम् । सम्यग्भावेन नृणां न भवति दुःखं कथञ्चिदपि ॥ ७६ ॥ द्व्यङ्लचत्वारिंशत्, समधिकवत्सरसहस्रसङ्ख्यायाम् । भाद्रपदपूर्णिमास्यां बुधोत्तरा भाद्रपदिकायाम् ॥७७॥ ॥ इति श्री आत्मानुशासनं समाप्तम् ॥ For Private Personal Use Only ४५ www.jainelibrary.org

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342