________________
Vol. I-1995
Jain Education International
श्री पार्श्वनाग विरचित...
यद्वन्न तृषः शान्तिर्जलं विना नक्षुधो विना ऽन्नेन । जलदं विना न सलिलं न, शर्म धर्मादृते तद्वत् ॥ ६४ ॥ सत्स्वामी सन्मित्रं, सद्वन्धुः सत्सुतः सत्कलत्रं च । सत्स्वजनः सद्भृत्यो धर्मादन्यदपि सत्सर्वम् ।।६५।। अतिनिर्मला विशाला, सकलजनानन्दकारिणी प्रवर । कीर्त्तिर्विद्या लक्ष्मी धर्मेण विजृम्भते भुवने ॥ ६६॥ आरोग्यं सौभाग्यं, धनाढ्यता नायकत्वमानन्दः । कृतपुण्यस्य स्यादिह, सदा जयो वाञ्छिताऽवाप्तिः ||६७ || सरभससुरगणसहितः, सुरयोषिज्जनितनृत्यसङ्गीतः । सुरलोके सुरनाथो, भवति हि धर्म्मानुभावेन ।। ६८ ।। न करिष्यसि चेद्धर्मं, पुनराप्स्यसि दुर्गतिं विशेषेण । दहनच्छेदनभेदन- ताडनरूपाणि दुःखानि || ६९ ॥ गच्छद्भिरपि प्राणै- बुद्धिमतां तन्न युज्यते कर्त्तुम् । उभयत्र यद्विरुद्धं, दीर्घभवभ्रमणकृदपथ्यम् ॥७०॥ अविवेकिनां नराणां, पुनरिह जननं पुनर्भवे न्मरणम् । कुर्वन्ति पण्डितास्तद् भूयोऽपि न भूयते येन ॥ ७१ ॥ कुरु भक्तिं गुणजगदीशे, सदागमे गुरुषु विदिततत्त्वेषु । अपवर्गप्रति रागं; संसारोपरि विरागं च ॥ ७२ ॥ तत्किमपि कुरु विदित्वा सद्गुरुतो ज्ञानमुत्तमं ध्यानम् । येनेह पूज्यसे त्वं, परत्र सुगतिं समाप्नोषि ॥ ७३ ॥ यत्र न जरा न मरणं, न भवं न च परिभवो न संक्लेशः । योगक्रियया ज्ञानात्, ध्यानादासादयते मुक्तिः ॥ ७४ ॥ मत्वैवं निस्सारं, संसारमनित्यतां च जगतोऽस्य । ज्ञानयुतं ध्यानं कुरु, लभसे येनाक्षयं मोक्षम् ॥ ७५ ॥ इति पार्श्वनागविरचित - मनुशासनमात्मानो विभावयताम् । सम्यग्भावेन नृणां न भवति दुःखं कथञ्चिदपि ॥ ७६ ॥ द्व्यङ्लचत्वारिंशत्, समधिकवत्सरसहस्रसङ्ख्यायाम् । भाद्रपदपूर्णिमास्यां बुधोत्तरा भाद्रपदिकायाम् ॥७७॥
॥ इति श्री आत्मानुशासनं समाप्तम् ॥
For Private Personal Use Only
४५
www.jainelibrary.org