SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ Vol. I-1995 Jain Education International श्री पार्श्वनाग विरचित... अनुभूतं सकलमिदं पूर्वार्जितकर्मपरिणतिवशेन । संसारे संसरता, प्रत्यक्षं जीव ! भवतेह ॥५॥ मनसापि न वैराग्यं, व्रजसि मनागपि तथापि मूढात्मन् ! । गुरुकर्मप्राग्भारा- वेष्टित ! निर्देष्टसचेष्ट ! ॥ ६ ॥ उद्विजसे दुःखेभ्यः, समीहसे सर्वदैव सौख्यानि । अथ च न करोति तत्त्वं येन भवत्यभिमतं सकलम् ॥७॥ यज्जीव ! कृतं भवता, पूर्वं तदुपागतं तवेदानीम् । किं कुरुषे परितापं, सह मनसः परिणतिं कृत्वा ॥८॥ यदि भोः पूर्वाचरितैरशुभैः, संदौकितं तवाशर्म । तत्किं परे प्रकुप्यसि, सम्यग्भावेन सह सर्वम् ॥९॥ मा व्रज खेदं मागच्छ, दीनतां मा कुरु क्वचित्कोपम् । तत्परिणमत्यवश्यं, यदात्मनोपार्जितं पूर्वम् ॥१०॥ सुखदुःखानां कर्त्ता, हर्त्ताऽपि न कोऽपि कस्यचिज्जन्तोः इति चिन्तय सद्भुद्ध्या, पुराकृतं भुज्यते कर्म ॥ ११॥ तत्प्रार्थितमपि यत्नान्, न भवेदिह यन्न पूर्वविहितं स्यात् । मनसि न कायः शोको, यद्भान्यं तद्बलाद्भवति ॥ १२ ॥ क्रियते नैव विषादो, विपत्सु हर्षो न चैव सम्पत्सुं । इत्येष सतां मार्गः, श्रयणीयः सर्वदा धीरैः ॥ १३॥ पूर्वकृतसुकृतदुष्कृतवशेन, यदिह हंत सम्पदो विपदः । आयान्ति तदन्यस्मिन् कृतेन किं तोषदोषेण ॥ १४॥ यदिपूर्वकर्मवशवर्त्तिनो जनाः प्राप्नुवन्ति सुखदुःखे । तो निमित्तमात्रं, परो भवत्यत्र का भ्रान्तिः ॥ १५॥ मित्रं भवत्यमित्रं, स्वजनोऽपि परो न बन्धुरपि बन्धुः । कर्मकरोऽप्यविधेयः, पुंसां हि परामुखे दैवे ।। १६ ।। न स्वामिनो न मित्रान्न, बान्धवात्पक्षपातिनो न परात् । किं बहुना कस्मादपि, न सरति कार्यं विधौ विमुखे || १७ || यदि गम्यते सकाशे, परस्य चाटूनि यदि विधीयन्ते । तदपि सुकृतेन विना, केनापि भवेत्परित्राणम् ||१८| For Private & Personal Use Only ४१ www.jainelibrary.org
SR No.522701
Book TitleNirgrantha-1
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages342
LanguageEnglish, Hindi, Gujarati
ClassificationMagazine, India_Nirgrantha, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy