Book Title: Najjaraj Yashobhushanam
Author(s): Embar Krishnamacharya
Publisher: Oriental Institute

View full book text
Previous | Next

Page 14
________________ भूमिका इदमलङ्कारशास्त्रं पुरा महीशरदेशे समधिगतसर्वाधिकारिपदस्य निरङ्कुशं प्रवर्तितमहीशरराज्यभरस्य स्वाश्रयभूतस्य नञ्जराजस्य गुणग्रामप्रशंसनमेव परमं प्रयोजनं मन्यमानेन तदीयपण्डितसभालङ्कारभतेन नरसिंहकविना तं प्रीणयितुं व्यरचि । अप्यलङ्कारशास्त्रस्य कर्ता कविरयं महान् । अलङ्कारविशेषादीन् प्रसाधयति यद्गुणैः ॥ प्रधानप्रतिपाद्यस्य कललेकुलजन्मनः । चरितं नञ्जराजस्य भूमिकादौ निरूप्यते ॥ __ महीशूरदेशान्तर्गतचामराजनगरपरिसरवर्ती कलले इति ख्यायमानः कश्चन ग्रामः पुरा केषाञ्चिद्राज्ञामन्वयक्रमेण राजधान्यभूत् । अत एव तदन्वयः कललेकुलमित्यभिख्यया ख्यायते । तद्वं. शनातत्वेन नञ्जराजमेनं कविरयं ' सञ्जातं कललेकुलेऽतिविमले येनेन्दुनेवाम्बुधौ ' (१३) 'कल. लेकुलरत्नस्य ' (१४ ) इति तत्र तत्र वर्णयति । अस्य पिता वीरनृपतिरिति भ्राता देवराज इति च · वीरक्ष्मारक्षरत्नोदित ' ( १५९) देवराजानुनो भाति ' (२०२) इति कवेरस्य वचनेनैव विज्ञायते । अपरश्चास्याग्रनः दोड्डे ( अरसिनवरु ) इत्याख्यया युक्त आसीदिति कललेनृपवंशावलीप्रदर्शकेन केनचिल्लेखेन विज्ञायते । अयं च लेखः महीशरदेशान्तर्गते यादवाचले ( मेलकोट इत्यस्मिन् पुण्यक्षेत्रे) रानकीयसंस्कृतपाठशालायामध्यक्षपदमलकुर्वद्भिः पण्डितवरैरस्मन्मित्रभूतैः श्रीमद्भिः एंबेरुमानार् स्वामिभिः चामराजनगरप्रान्तस्थरामसमुद्राख्याग्रहारे कस्यचिद्ग्रामगणनाधिपस्य (शानुभोगस्य ) गृहे स्थितं प्राचीनतालपुस्तकं दृष्ट्वा ततः सारतः समुद्धृत्य मह्यं प्रेषितः । प्राचीनतालपुस्तकतः समुध्दृतोऽयं लेख इतिप्रायः प्रमाणं भवितुमर्हति । अस्मिन्नंशे तैः कृतं साहाय्यमिदं भूमिकालेखनसमये मुहुरनुस्मरामः। अनेन लेखेनास्य नञ्जराजस्य प्राक्त नान्वयपरम्परैवं विज्ञायते । पुरा यादवकुलतिलकभूतः कृष्णराजः शालिवाहनशकस्य पञ्चदशशतके १४२१ संवत्सरे सिद्धार्थिनामके माघशुद्धदशम्यां-द्वारवतीनगराद्विनिर्गत्य विजयनगरं प्राप्य कृष्णरायभूपतेः सन्निधौ कतिपयदिनानि स्थित्वा ततः अग्रनेन कान्तराजेन सह कललेनगरं प्राप । तस्मिन्नगरे कृष्णराजस्याग्रजः कान्तराजः (कान्तेवडयरु) उम्मतूरनगराधिपस्य हरिहररायस्य पार्थिवस्यानुमत्या प्रनाभिः कललेराज्येऽभिषिक्तः प्रशशास कललेनगरम् । अस्यान्वये (१) करिकालुमल्लराज इति प्रख्यातः कललेराज्ये अभिषिक्तोऽभूत् , अयं कललेराज्ये अभिषिक्तेषु सप्तमः । (२) तस्य पुत्रः तिम्मराजः (तिम्मराजवडयर् ) (३) अस्य पुत्रः कान्तराजः ( मुप्पिन कान्ते अरसिनवरु) ( ४ ) अस्य पुत्रः दोड्डेराजः ( दलवाई दोड्डे अरसिनवरु ) (५) अस्य पुत्रः वीरराजः (वीरराज अरसिनवरु ) अस्य पुत्राः १ दलवाइ देवराजः ( देवराज अरसिनवरु ) २ दोड्डे रामः (दोड्डे अरसिनवरु) ३ सर्वाधिकारिनञ्जराजः ( नञ्जराज अरसिनवरु ) करिकालुमल्लराजात षष्ठोइयमेव नञ्जराजोऽस्यालङ्कारशास्त्रस्य विषयभूतः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 330