Book Title: Najjaraj Yashobhushanam
Author(s): Embar Krishnamacharya
Publisher: Oriental Institute

View full book text
Previous | Next

Page 19
________________ भूमिका. अथ राजानं ( इम्मडिकृष्णराज ) भीषयित्वा खण्डेरावं समानाय्य तं खण्डेरावं कारागृहे न्यधात् । तदा तदा सैनिकानां वेतनावशेषपरिपूरणसमये यन्मदीयं धनं बहु राज्यार्थे समुपयुक्तं तदृणमधुना प्रत्यर्पणीयमिति पुनःपुनमहाराजमुत्तमर्ण इवाधमर्ण बलान्यवेदयत् । महाराजश्च ततो भीतो राज्यस्य ऋणं परिजिहीर्षन् राज्यभरणव्यापारं समग्रं तदायत्तं विधाय निवृत्तस्ततः स्वयं केवलं माननमात्राहै राजपदमलञ्चकार । अथैवं सर्वप्रकारेण परिपूर्णमनोरथः ( 1761 A, D ) प्राप्तराज्यो निरङ्कुशप्रशासनः समभूत् । अथायं व्यतीतेषु पञ्चषवर्षेषु महाराजे (इम्मडि कृष्णराजे ) दिवं गते तस्य ज्येष्ठपुत्रं नञ्जराज महाराजपदेऽभ्यषिञ्चत् । कतिपयेषु हायनेषु व्यतीतेषु राज्ञो नञ्जरानस्य प्रकृति स्वस्याननुकूलां स्वतन्त्रां विज्ञाय तं महारानपदान्यवर्तयत् । अथ कदाचित् स्वप्रत्यर्थिभिर्माहाराष्ट्रः स ह सन्धौ प्रयतमानं प्राचीनामात्यं नञ्जराज विनयगर्भे: प्रत्यशाधायकैः कपटसन्देशैः कोणनूरतः श्रीरङ्गपट्टणं समानाय्य कारागृहे न्यधात् । अथ व्यपगतराजपदस्य नञ्जराजस्य स्वप्रत्यर्थिभिर्माहाराष्ट्रैः सह रहसि स्वप्रतिकूला प्रवृत्ति प्रचलन्ती विज्ञाय तं नजरानं निहत्य ततश्चामराजनामकं राजपुत्र महाराज इति पदेन समयोजयत् । अस्मिन् समये ( 1773 A. D) सोऽयं कारागृहे प्रक्षिप्तो नजरानस्तत्रैवकालवशमगमत् । यद्यपीदमस्य नञ्जराजस्य चरितमस्मिन्निबन्धे अंशतोऽपि नोपलभ्यते, नैतावताऽस्मादन्येनैवैतन्निबन्धप्रतिपाद्येन नञ्जराजेन भाव्यमिति सम्भावना युज्यते । नह्ययं निबन्धश्चरितनिरूपणाय प्रवृत्तः, अलङ्कारशास्त्रं हीदम् । नचेह विरुद्धं लिङ्गमुपलभ्यते । प्रत्युतानुकूलमेव लिङ्ग पितुर्धातुश्च नामनिर्देशः । हालास्यमाहात्म्यादिविविधप्रबन्धकर्तृत्वं चास्यास्मिन्निबन्धे वर्ण्यते, तस्मिंश्च हालास्यमाहात्म्ये स्वपितामहस्य दोड्डराजस्य नामनिर्देशः क्रियते । अनेनान्वयप्रत्यभिज्ञानेन स एवायं नञ्जराज इति स्पष्टमवगम्यते । अस्य नञ्जराजस्य परमशिवे पराभक्तिश्चास्मिन् ग्रन्थे बहुषु स्थलेषूपलभ्यते, शब्दचित्रनिरूपणप्रकरणे ( १५७ ) · यासौंभमदभङ्गाया' इत्यस्मिन् पद्मबन्धोदाहरणे सौन्दरेशगुरुशिष्यताऽस्य राज्ञो ज्ञाप्यते, अनेन चास्य शिवदीक्षाप्रदेन गुरुणा भाव्यम् । अयं नञ्जराजो राज्यश्रियेव विद्याश्रियाच संपन्न इतिच नाटकप्रकरणे (९) 'विरुद्धयोः श्रीभारत्योरेकत्र' इति श्लोकेन तद्गुणवर्णनेन विज्ञायते । नचेदं कविकृतं वर्णनमात्रम् । निबन्धाश्च बहवोऽनेन विरचिता अस्य पाण्डित्यं ज्ञापयन्ति । ( नञ्जराजविरचिता निबन्धाः ) (१) सङ्गीतगङ्गाधरम् (संस्कृतभाषारूपम् ) (२) हालास्यमाहात्म्यम् ( ३) शिवभक्तिविलासः (१) ककुद्दिरिमाहात्म्यम् (५) काशीमहिमार्थदर्पणम् (६) काशीकाडम् Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 330