SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ भूमिका. अथ राजानं ( इम्मडिकृष्णराज ) भीषयित्वा खण्डेरावं समानाय्य तं खण्डेरावं कारागृहे न्यधात् । तदा तदा सैनिकानां वेतनावशेषपरिपूरणसमये यन्मदीयं धनं बहु राज्यार्थे समुपयुक्तं तदृणमधुना प्रत्यर्पणीयमिति पुनःपुनमहाराजमुत्तमर्ण इवाधमर्ण बलान्यवेदयत् । महाराजश्च ततो भीतो राज्यस्य ऋणं परिजिहीर्षन् राज्यभरणव्यापारं समग्रं तदायत्तं विधाय निवृत्तस्ततः स्वयं केवलं माननमात्राहै राजपदमलञ्चकार । अथैवं सर्वप्रकारेण परिपूर्णमनोरथः ( 1761 A, D ) प्राप्तराज्यो निरङ्कुशप्रशासनः समभूत् । अथायं व्यतीतेषु पञ्चषवर्षेषु महाराजे (इम्मडि कृष्णराजे ) दिवं गते तस्य ज्येष्ठपुत्रं नञ्जराज महाराजपदेऽभ्यषिञ्चत् । कतिपयेषु हायनेषु व्यतीतेषु राज्ञो नञ्जरानस्य प्रकृति स्वस्याननुकूलां स्वतन्त्रां विज्ञाय तं महारानपदान्यवर्तयत् । अथ कदाचित् स्वप्रत्यर्थिभिर्माहाराष्ट्रः स ह सन्धौ प्रयतमानं प्राचीनामात्यं नञ्जराज विनयगर्भे: प्रत्यशाधायकैः कपटसन्देशैः कोणनूरतः श्रीरङ्गपट्टणं समानाय्य कारागृहे न्यधात् । अथ व्यपगतराजपदस्य नञ्जराजस्य स्वप्रत्यर्थिभिर्माहाराष्ट्रैः सह रहसि स्वप्रतिकूला प्रवृत्ति प्रचलन्ती विज्ञाय तं नजरानं निहत्य ततश्चामराजनामकं राजपुत्र महाराज इति पदेन समयोजयत् । अस्मिन् समये ( 1773 A. D) सोऽयं कारागृहे प्रक्षिप्तो नजरानस्तत्रैवकालवशमगमत् । यद्यपीदमस्य नञ्जराजस्य चरितमस्मिन्निबन्धे अंशतोऽपि नोपलभ्यते, नैतावताऽस्मादन्येनैवैतन्निबन्धप्रतिपाद्येन नञ्जराजेन भाव्यमिति सम्भावना युज्यते । नह्ययं निबन्धश्चरितनिरूपणाय प्रवृत्तः, अलङ्कारशास्त्रं हीदम् । नचेह विरुद्धं लिङ्गमुपलभ्यते । प्रत्युतानुकूलमेव लिङ्ग पितुर्धातुश्च नामनिर्देशः । हालास्यमाहात्म्यादिविविधप्रबन्धकर्तृत्वं चास्यास्मिन्निबन्धे वर्ण्यते, तस्मिंश्च हालास्यमाहात्म्ये स्वपितामहस्य दोड्डराजस्य नामनिर्देशः क्रियते । अनेनान्वयप्रत्यभिज्ञानेन स एवायं नञ्जराज इति स्पष्टमवगम्यते । अस्य नञ्जराजस्य परमशिवे पराभक्तिश्चास्मिन् ग्रन्थे बहुषु स्थलेषूपलभ्यते, शब्दचित्रनिरूपणप्रकरणे ( १५७ ) · यासौंभमदभङ्गाया' इत्यस्मिन् पद्मबन्धोदाहरणे सौन्दरेशगुरुशिष्यताऽस्य राज्ञो ज्ञाप्यते, अनेन चास्य शिवदीक्षाप्रदेन गुरुणा भाव्यम् । अयं नञ्जराजो राज्यश्रियेव विद्याश्रियाच संपन्न इतिच नाटकप्रकरणे (९) 'विरुद्धयोः श्रीभारत्योरेकत्र' इति श्लोकेन तद्गुणवर्णनेन विज्ञायते । नचेदं कविकृतं वर्णनमात्रम् । निबन्धाश्च बहवोऽनेन विरचिता अस्य पाण्डित्यं ज्ञापयन्ति । ( नञ्जराजविरचिता निबन्धाः ) (१) सङ्गीतगङ्गाधरम् (संस्कृतभाषारूपम् ) (२) हालास्यमाहात्म्यम् ( ३) शिवभक्तिविलासः (१) ककुद्दिरिमाहात्म्यम् (५) काशीमहिमार्थदर्पणम् (६) काशीकाडम् Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034564
Book TitleNajjaraj Yashobhushanam
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOriental Institute
Publication Year1930
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy