________________
भूमिका. ( ७ ) गरलपुरीमाहात्म्यम् (८) विनेश्वरव्रतकल्पः (९) शिवगीता ( १० ) शिवधर्मोत्तरम् (११) भद्रगिरिमाहात्म्यम् ( १२) भारतम् (१३ ) मार्कण्डेयपुराणम् ( १४ ) शिवभक्तिमाहात्म्यम् ( १५) शैवधर्मः । (१६) सेतुमहिमादर्शः (१७) हरदत्ताचार्यमाहात्म्यम् ( १८ ) हरिवंशः । एषु हालास्य माहात्म्यादयः कर्णाटकभाषात्मकाः।
अस्य नजराजस्य चरिते विशेष जिज्ञासमानाय मह्यं प्राक्तनविमर्शविचक्षणाः रावबहादूर सुगृहीतनामधेयाः श्री. नरसिंहाचार्याः अस्य नञ्जराजस्य कृतिविशेषाणामेषां नामानि अस्य पितृपितामहादीनां च नामानि अन्यच्चावश्यकमस्मिश्चरिते न्यवेदयन् । अस्मिन् साहाय्ये तान्महाशयान् सबहुमानं सादरं चानुस्मरामः । अस्य नञ्जराजचरितस्यायमनुवादो महीशूरदेशीय चरितावबोधके रैस् महाशयेन विरचिते मैसूर गजेटियर नामके पुस्तके Mysore Gazetteer edited by Lewis Rice वर्णितात् संप्रगृह्येह विहितः । अस्य नञ्जराजस्य सभायां कवयो बहव आसन्निति ' श्रीनञ्जराजो नवभोजराजो नृसिंहसूरिनवकालिदासः' (८९) इत्यनेन वचनेन गम्यते ।
अस्य नरसिंहकवेः कदा कस्मिन् देशे जन्मेति न व्यक्तं विज्ञायते । प्रायो महीशूरदेशएव जन्म स्यात् । कविरयं नाटकप्रकरणे ‘सनगरकुलेन्दोः नरसिंहाभिधविदुषः कृतिरियमभिनीय दर्शनीये 'ति (८७) स्वस्य कुलं वर्णयति । अस्मिन् सनगरकुले जाताः कतिचन विप्रा महीशूरदेशान्तर्गते बेंगलूरनगरे अद्यापि वर्तन्ते । अस्य पिता शिवरामो नाम पण्डितवरः कश्चिदासीत् । 'शिवरामसुधीसूनोनरसिंहकवेः ' कृति 'रिति निबन्धारम्भे कविरेवैतत्प्रकाशयति । अस्य नरसिव्हकवर्गुरुयोगानन्दनामा कश्चिद्यतीन्द्र आसीदिति अस्यैव कर्वचननेन · योगानन्दयतीन्द्रायसान्द्राय गुरवे नमः' (१) इत्यनेन विज्ञायते । प्रतिविलासं विलासस्यावसाने परमशिवावतारशिवरामदेशिकचरणारविन्दानुसन्धान समासादितनिःसहायदैनंदिनप्रबन्धनिर्माणसाहसि कxxxनरसिंहकविविरचिते' इत्युल्लेखेन पितुः सकाशादेवानेन विद्याऽभ्यस्ता स्यादिति संभाव्यते । अन्य एव वाऽयं शिवरामदेशिकः स्यात् । तस्यास्य कालः यो नञ्जराजस्य समयः स एव (1739 A. D)। यदस्मिन् निबन्धे नाटकप्रकरणे — तत्कविसमक्षमेव कृतिनायकेनxxxनञ्जराजेन सबहुमानमाहूतः समादिष्टोऽस्मि' इति (८९) सूत्रधार वचनं प्रयुञ्जता कविनैव स्वस्य नञ्जराजसमकालिकता ज्ञाप्यते । निबन्धस्यास्यान्ते ( २२३) 'आलूरतिरुमलकवेरभिनभवभूतिनामधेयस्य । सुहृदा नृसिंहकविना' इति स्वस्य सुहृदं नाम्ना निर्दिशति । अस्य कवेः कृतिस्तु नोपलभ्यते । यश्चास्याभिज्ञानमालूरिति निर्दिश्यते स च कश्चन ग्रामो महीशूरदेशान्तर्गतचामराजनगरप्रान्ते वर्तते । प्रायोऽयमेव तस्य कवेरावासग्रामः स्यात् ।
यद्यप्ययं नरसिंहकविरर्वाचीन एव । अथापि कृतिरियं गुणग्राहिणां सहृदयानां काव्यालंकारस्वरूपसारास्वादपराणामालादायैव स्यात् । ये पुनः कतिचन पण्डिताः प्रकृत्याऽर्वाचीनमिति
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com