________________
भूमिका. त्यजन्ति, तान्प्रतीदमावेद्यते । न सर्वमेव काव्यं कालिदासादीनामिव मधुरमधुरम् , न वाऽलङ्कारशास्त्रं सर्वमेव भामहादीनामिव सकलविबुधश्लाघनीयम् । अथापि तरतभभावेन सुमनसां स्वादाय कल्पत एव । एवमेवार्वाचीनेष्वपि । तदात्वे नूतनं सर्वमायत्यां च पुरातनम् । तदिदमलङ्कारशास्त्रमन्तःप्रविश्य परिशील्यमानं विदुषामनादरणपदं नैव स्यात् ।
अस्य च निबन्धस्य परमं हार्द नञ्जराजगुणप्रपञ्चन एवेति तूक्तं प्रागेव । तच्छेषतया तु नायकनिरूपणप्रभृत्यलङ्कारनिरूपणान्ते शास्त्राभिधेये । अलङ्कारशास्त्रप्रणयने प्रवृत्ता बहवः प्राचीनास्तत्तल्लक्षणानि स्ववचनेन पूर्वपूर्ववचनेन वा निरूप्य लक्ष्यनिरूपणाय कालिदासादीनां महाकवीनां निबन्धेभ्यः समुद्धृत्योदाहरन्त्यन्यान्यनायकपरान् श्लोकान् स्वीयानेववा तथाविधान् । त एते शास्त्रप्रवर्तनैकपराः स्वस्येव परेषां बहूनां महाकवीनां विविधवागमृतमास्वादयन्ति स्वनिबन्धमुखेनैव । अश्रुतपूर्वाणां महाकवीनां महाकाव्यानां चाभिज्ञानमापादयन्ति च । अपरे च लक्ष्य मुदाहरन्तः स्वकृतेः पुरुषोत्तमविषयत्वापादनेन पारलौकिकं श्रेयःपरमिच्छन्तःपुरुषोत्तमविषयकानतिरमणीयान् श्लोकनारचय्य वाचमात्मनः सफलयन्ति, तथा स्वनिबन्धाभ्ययनावलोकनप्रवृत्तानन्यांश्च । विद्यानाथप्रभृतयः केचित्तु-अलङ्कारशास्त्रप्रणयनव्याजेन स्वाश्रयं कमपि नृपतिं समाराधयन्ति तद्गुणगानेन । लघीयो नामैषां शास्त्रप्रणयनप्रवृत्तिमूलम् । अथापि शास्त्रप्रकर्षस्तु नापैति । सह्यभिधेयप्रकर्षाधीनः । अयमपि नरसिंहकविस्तयैव शैल्या शास्त्रमिदं व्यरचयत् । एतत्कृतं शास्त्रमिदं नञ्जराजयशोभूषणं विद्यानाथकृतिं प्रतापरुद्रयशोभूषणं प्रायश्छाययेव क्वचित्कतिचित्पदतो वाक्यतश्चानुकरोति । यथा-' अन्वितेषुxxमूलत्वेन ' इत्यन्तं वाक्यमेकम् (ना. १६)(प्रताप. ५२) एवं रसान्तरेष्वाप्युदाहरणं द्रष्टव्यम् +++ष्ट्रीत्वत्प्रौढत्वम् ' (नञ्ज. १७-१८ ) (प्रताप. ६२-६३) ' अथ महाकाव्यादयः+++अथ क्षुद्रप्रबन्धा निरूप्यन्ते' (नञ्ज. ३५-३६) (प्रताप. ९६-९७) भावस्य स्थायित्वं नाम +++ तथाचोक्तं दशरूपके भावस्य शान्तिरुदयः सन्धिः शबलतातथेति ' ( नञ्ज. ३७-३८ ) (प्रताप. २२०+++२२८ ) यथाकरचरणा+++ सम्मतः ( नञ्ज. १५४. प्रताप ३३७ ) अर्थालङ्काराणां चातुर्विध्यम्xxxxकथञ्चित् सादृश्यमस्ति अथाप्यस्याविवक्षितत्वात् न सादृश्यमूलेषु गणना ( नञ्ज. १५४-१५६ ) (प्रताप. ३३७३४० ) एवं तत्र तत्र दृश्यते । ये विषयाः प्रतापरुद्रयशोभूषणे निरूपितास्ते तेनैव पौर्वापर्यक्रमेणा त्रापि निरूप्यन्ते, ध्वनिनिरूपणानन्तरं समुपक्रान्तं नाटकप्रकरणमिह गुणदोषनिरूपणानन्तरमुपक्रम्यत इति क्वचित् क्रमवैलक्षण्यम् । न च प्रधानविषयैक्यमात्रेणास्य प्रतापरुद्रीयेण गतार्थता । मिद्यते हि तत्र तत्र तत्तदुपपादनशैली विषयविचारशैली च । काणादादिततत्तच्छास्त्रेषु बहवो हि निबन्धा मिन्नभिन्न पुरुषकृताः सन्ति, तत्र विचार्यमाणाः प्रधानविषयास्तु त एव तत्तद्दर्शनासाधारणाः प्रमेयप्रमाणांशाः। अथाप्यध्येतृणां मन्दमध्यमादिभेदेन बुद्धैचित्र्यात् स्वमतोपपादकयुक्तिवैचित्र्यात् सर्व एव यथाधिकारं यथारुच्युपयुज्यन्त एव । एवमेवास्मिन्नलङ्कारशास्त्रेऽपि । विचार्यते चानेन प्रतापरुद्रीयप्रक्रियामनुस
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com