________________
भूमिका.
( कृष्णराज भूपेन ) प्रशमनोपायं पृष्टा हदर् न्यवेदयत् - ' यावदयं नञ्जराजः सर्वाधिकारिपदानापैति तावदिदं कथमप्यसमाधेयमेवेति । तदा राज्ञा लक्षत्रयरूप्यवार्षिकायं कतिपयग्रामसमुदायं पदातीनां सहस्रत्रयमश्वानां च सहस्रं तस्मै वितीर्य तं नञ्जराजं निधिबाणर्षिचन्द्रसमिते किस्ताब्दे ( 17 59A. D ) सर्वाधिकारिपदान्न्यवर्तयत् । ततः स हैदर् खण्डेरावेन सह संभूय कथं कथमपि धनं समाहृत्य सैनिकानां वेतनावशेषं वितीर्य राज्यं सैनिकजनक्षोभरहितमकरोत् ।
१७
स च नञ्जराजः सर्वाधिकारिपदाद्विनिवर्तितोऽपि विंशतिवत्सरं यावन्निरङ्कुशं पार्थिवपदादविशिष्टमुपभुक्तं सर्वाधिकारिपदमनुस्मरस्तद्वासनावासितचेताः सहसा महीशूरनगरं त्यक्तुमसमर्थः सन गरलपुरेश्वरस्य भगवतः सेवां व्याजीकृत्य महीशूरनगर एव चिरं न्यवसत् । अथ तं बलात्ततो निर्गमयन् हैदर् तेनाधिष्ठितं राजभवनं प्रतिरुरोध । प्राक्प्रदत्ते लक्षत्रयवार्षिकाये ग्रामे लक्षद्वयं च प्रतिरुरोध । अथानिच्छताऽपि तेन महीशूरनगरे निवासः परित्यक्तः । महीशूरनगरात्प्रतीच्यां दिशि वर्तमाने कोणनूरनामके ग्रामे न्यवसत् । अथास्य दुहिता राज्ञः पत्न्यपि कालेनाल्पेन परलोकमगात् ।
I
1
तत आरभ्य (1759 A. D) खण्डेराव् प्रधानपदे न्ययुज्यत । अथ कतिपयमासेषु गतेषु आंग्लेय वशगमार्काडनगरमाहर्तुकामानां फञ्चदेशीयानां साहाय्याय हैदर् महीशूरसैन्यं सर्वमप्रैषीत् । हैदर प्रभोरनुदिनमभिवर्धमानं राज्ये प्राबल्यमिदमसहमान: खण्डेरावस्तमधिकारात्प्रच्यावयितुमयमेव समय इत्यवधृत्य माहाराष्ट्रैः सह सम्मन्त्रणमकरोत् । इदं रहस्यं हैदर् विज्ञाय माहाराष्ट्रसैन्यागमनात्प्रागितो निर्गमनमेव वरमधुनेति विनिश्चित्य स्वयमेकाक्येव रात्रौ श्रीरङ्गपट्टणान्निर्गत्य एकरात्रेणैव बेंगलूरनगरं प्राप्य इतस्ततोधनं समुचितं संपाद्य महाराष्ट्रसेनाधिपं खण्डेरावसाहाय्याय समुद्यतमर्थेन तद्विमुखं विधाय कतिपयसेनासहायं समधिगम्य खण्डेरावेण सह महीशूरसमीपवर्तिगरलपुर ( नञ्जनगड ) समीपे प्रतियुध्य प्राप्तः पराजयं ततो विद्रुतो हरदनहलीनामक ग्रामं प्राप्य विचिंत्य पुनस्तद्विजये उपाय रात्रावेव ततो निर्गत्य प्रातः कोण्णनूरग्रामं प्राप्य नञ्जराजस्य भवनद्वार विनीतवेषः प्राप्य तेनाभ्यनुज्ञातः प्राप्य तत्सन्निधिं स्वस्येमां दुरवस्थां निवेद्य - दीने जनेऽशरणे क्षमां विधाय पूर्वापराधं विस्मृत्य पुनर्भवता मुख्यमन्त्रिपदं स्वीकृत्य राज्यं संरक्ष्यं वयं च संरक्ष्याः इत्यभ्यर्थयत । स च तेनाभ्यर्थितस्तद्वचने कृतप्रत्ययः स्वस्य सेनां तत्साहाय्याय दत्वा ' अहमेवेतः परं पूर्ववत् सर्वाधिकारिपदमधिकरिप्यामि अयमेव हैदर् दलवाइपदे मया गृह्येतेति तत्र तत्र आत्मीयान् सर्वान् लेखेन न्यवेदयत् । एवं प्राप्तसाहाय्योऽप्येष साक्षात् युद्धे पराजयमेवाशङ्कय कांश्चन कपटलेखान् नञ्जराज हस्ताक्षरमुद्राङ्कितान्निर्माय खण्डेरावस्य हस्तं प्रापयत् । तं लेखमवलोक्य स खण्डेरावः स्वस्यैव सेनाः स्वस्य प्रतिकूलाः स्युरिति विनिश्चित्य रात्रावेव श्रीरंगपट्टणादपससार । अथापसृते तस्मिन् विशीर्णास्तत्सेनाः क्रमशो विजित्य श्रीरङ्गपट्टणं पुनः स्वायत्तं चकार ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com