________________
१६
तस्याप्तः कश्चिदाधिकारिकः खण्डेरावनामा श्रीरङ्गपट्टणस्थस्तस्मै न्यवेदयत् । सतु हैदर तद्वृत्तं समुपश्रुत्य ततः प्रस्थाय श्रीरङ्गपट्टणं प्राप्य नञ्जराजं रहसीदं न्येवदयत्राज्यस्याधुना समुपनतोऽयमार्थिकः क्लेशः, ऋणं चेदं महत्, तत्कालोचितेनोपायेन परिहरणीयमेतत् । इदानीं वर्षासमयः, अद्य यन्माहाराष्ट्र सैन्यमस्मद्देशेऽस्ति तत्परिमितम्, तदल्पबलं प्रबलेनास्मत्सैन्येन वयमस्मद्देशाद्विद्रावयामः । कालान्तरेचेत्ते प्रत्यर्थिनः प्रत्यागच्छेयुस्तदा वयं तान्प्रतियुध्यापसारयामः, धनं तु प्रतिश्रुतं नैव देयमिति । तदिदं नञ्जराजः समयसमुचितं विनिश्चित्यानुमेने । अथ तत्सैन्यं यथामन्त्रणं नञ्जराजेन समादिष्टैः सैनिकैर्बलात्पीड्यमानं प्रतियोद्धुमसमर्थ सत्ततो व्यद्रवत् । ततः कतिपयमासान्यावन्महाराष्ट्राणां पीडा नैवासीत् ।
भूमिका.
अथ ग्रहबाणर्षिभूसंमिते क्रिस्ताब्दे ( 1759 A D ) पुनर्माहाराष्ट्राश्चन्नपट्टणं परितः परिवृत्य प्ररुरुधुः । तदा प्रधानसेनापतिपदे नियुक्तो हैदर् तान् माहाराष्ट्रान् प्रत्ययुध्यत । त्रीन् मासान्यावत् युद्धो महानभूत् । अथ विजित्य तान् तैः सह समयबन्धमेवमकरोत् । यद्यपि प्राक् - प्रतिश्रुतं द्वात्रिंशल्लक्षं दीयेत समये । महाराष्ट्रैस्तु सैनिकैरधुनैव महीशूरराज्यसीमानं परित्यज्यान्यत्र गन्तव्यमिति । एवं लब्धविजयं समागतमेनं सेनानायकं हैदराख्यं महाराजः इम्मडि कृष्णराजभूपतिर्महत्यां राजसभायां फतेह हैदरबहादूर इत्यभिख्ययाऽभ्यनन्दत् । नञ्जराजोऽपि तस्यां सभायां तं प्रत्युत्थायाभ्यनन्दत् ।
1
अथाल्पेनैव कालेन यथानियतं मासिकवेतनालाभेन सैनिकानां सर्वेषां महानाक्रोशः समुदभूत् तेषामेकत्र सङ्घीभूतानां महान् संक्षोभः समभूत्, येन राज्यस्यैव भयमशाङ्कयमानमभूत् । तदा तेभ्यो वेतनावशेषं दातुं प्रक्षीणकोशतयाऽसमर्थो नञ्जरानो व्याकुलो बभूव । तदा हैदर् भयादस्माद्राज्यं संरक्षितुं दलवाइ देवराजस्य सान्निध्यमाकांक्षमाणः सत्यमङ्गलग्रामे वसन्तं तं - 'पुनः श्रीरङ्गपट्टणे सन्निधाय स्वपदमधिकृत्य संक्षोभोऽयं प्रशमयितव्य' इति विनयपूर्वकं न्यवेदयत्। सोऽपि नञ्जराजप्रहित क्षमाम्यर्थन वचनेन प्राक्तनं वैमुख्यं हृदयतलादपनीय दलवाइ पदमधिकुर्वन् श्रीरंगपट्टणं समाजगाम । परं दैवयोगेन दशदिवसान्तराल एव स काल वशमवाप । अथ नञ्जराजः खिन्नमानसः सैनिकसंक्षोभं प्रशमयितुं त्वमेव प्रभवसीति हैदराख्यमेव सप्रणयबहुमानं न्ययोजयत् । सोऽपि तदभ्यर्थनावचनं स्वीकृत्य खण्डेरावाख्यस्य साहाय्येन परीक्ष्य सैनिकानामाशयं कथं कथमपि ( राजधनतः स्वधनतश्च ) वेतनावशेषं सर्वं प्रादात् । अथ सैनिकेषु प्राप्य वेतनं प्रशान्तहृदयेषु विहाय श्रीरंगपट्टणं स्वस्व स्थानं गतेषु सएष हैदर परितः स्वसैनिकान् संस्थाप्य ये पुरा वेतनावशेषग्रहणव्याजेन सैन्ये कोलाहलमकारयंस्तान् प्रधानपुरुषान् राज्यद्रोहाचरणेन दूषितान् दण्डयंस्तेषां घनक्षेत्रादिसमृद्धि राज्यायत्तमकरोत् ।
अथ पुनः कदाचिदलब्ध वेतनावशेषाः सर्वे सैनिकाः समेत्य श्रीरंगपट्टणं, नवराज भवनद्वारे रात्रिंदिवमपेतसकलप्रवृत्तयो व्यतिष्ठन् । तदाऽनधिगततदुपशमनोपायेन महाराजेन
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com